Book Title: Thanangsuttam and Samvayangsuttam Part 3 Tika
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 843
________________ ७५४ अष्टमं परिशिष्टम् अत्र जे १ खं० मध्ये 'पम्हं सुपम्हं पम्हावत्तं पम्हपहं वम्हकंतं बंभवण्णं वम्हलेसं जाव बम्भु(लंबु जे १)त्तरवडेंसगं सुजं सुजावत्तं' इति पाठः। जे २ मध्ये तु ‘वम्हं वम्हावत्तं बंभष्पहं बंभकंतं बंभवणं बंभलेसं जाव वम्हुत्तरवडेंसगं सुजं [सुसुजं जे २ मध्ये पश्चात् पूरितं] सुजावत्तं' इति पाठः। अत्र नवस्थाने 'पम्हं' इत्यादिपाठमनुसृत्य “पक्ष्मादीनि द्वादश, सूर्यादीन्यपि द्वादशैव, रुचिरादीन्येकादश च विमाननामानि" इति अटी०मध्ये व्याख्यातम्। 'वह' इत्यादिपाठं त्वनुसृत्य मलयगिरिसूरिभिबृहत्संग्रहण्याः [गा० २६] टीकायां "ब्रह्मलोके...."चतुर्थे प्रस्तटे नव सागरोपमाणि। तानि ब्रह्मसुब्रह्म-ब्रह्मावर्त-ब्रह्मप्रभ-ब्रह्मकान्त-ब्रह्मवर्ण-ब्रह्मलेश्य-ब्रह्मोत्तरावतंसक-सूर्य-सूर्यावर्त-सूर्यप्रभ-सूर्यकान्तसूर्योत्तरावतंसकप्रभृतिषु विमानेषु" इत्यभिहितम्। द्वादशस्थानेऽपि [पृ० ३४७ पं० १०] जे १ खं० प्रभृतिहस्तलिखितादर्शेषु 'पम्हं सुपम्हं' इत्यादिपाठो विद्यते तथापि तत्र जे २ आदिहस्तलिखितादर्शेषु विद्यमानं 'बंभं सुबंभं' इत्यादिपाठमनुसृत्य " ब्रह्मादीनि द्वादश विमाननामानि" इति अटी०मध्ये व्याख्यातम् ।। पृ० ३४२ पं० १८ रुतिल्लं । अत्र जे १ खं०मध्ये 'रुतिल्लं रुविल्लावत्तं रुइलप्पभं जाव रुइलुत्तरवडेंसगं' इति पाठः। जे २ मध्ये 'रुत्तिलं रुइल्लावत्तं रुयलप्पभं जाव रुयलुत्तरवडेंसगं' इति पाठः॥ पृ० ३४४ पं०४-५ उवस्थिया पण्णत्ता, तंजहा। अत्र 'पण्णत्ता' इति पदं तालपत्रप्रतिषु कुत्रापि नास्ति। प्राचीनेषु हस्तलिखितादर्शेषु कुत्राप्यभावात् 'उवस्थिया, तंजहा' इत्येव शोभन: पाठोऽत्र ज्ञेयः। " उवभोगत्ताए ति उपभोग्यत्वाय उवन्थिय त्ति उपस्थिताः, उपनता इत्यर्थः ।"-अटी० ॥ पृ० ३४६ पं० १ अवाहाए। अत्र जे १ मध्ये भावाहाए इति पाठः। दिगम्बरग्रन्थेषु आवाधाशब्दस्य प्रयोगस्तत्र तत्र दृश्यत इति ध्येयम्। “कम्मसरूवेणागयदव्वं ण य एइ उदयरूवेण । रूवेणुदीरणस्स व आबाहा जाव ताव हवे॥ १५५॥” इति गोम्मटसारे कर्मकाण्डे ॥ पृ० ३४६ पं० १९-२० 'एकादश एक्वारे त्ति' इति हस्तलिखितादर्शस्थः पाठः शुद्धः॥ पृ० ३४८ पं० ८ चउसिरं तिगुत्तं, दुपवेस। अत्र जे १ मध्ये 'चउसिरं विगुत्तं च, दुपवेसं' इति पाठः, आवश्यकनियुक्तावपि अयमेव पाठः, अतः 'तिगुत्तं च' इति समीचीनतरः पाठो भाति । अटी०मध्ये 'तिहिं गुत्तं' इति पाठः, 'तिहि सुद्धं' इति च पाठान्तरम् ॥ पृ० ३५० पं० ३ अब्भ(ज्झ ?)थिए। अत्र हस्तलिखितादर्शेषु 'अज्झथिए' इत्येव पाठः, स एव च शुद्धपाठः। अतः पृ० ३५० पं० २५ मध्ये विद्यमानं '२ अज्झस्थिए मु०॥' इति टिप्पणं निरर्थकत्वानिष्कासनीयम्॥ पृ० ३५० पं० १४ वेउब्वियसरीरकायपयोगे इति शुद्धः पाठः॥ पृ० ३५२ पं० ४ चोद्दस जीवट्ठाणा। तुला-"जेहिं दु लक्खिज्जते उदयादिसु संभवेहिं भावहिं। जीवा ते गुणसण्णा णिहिट्ठा सव्वदरसीहिं ।। ८॥ मिच्छो सासण मिस्सो अविरदसम्मो य देसविरदो य। विरदा पमत्त इदरो अपुव्व अणियहि सुहमो य॥९॥ उवसंत खीणमोहो सजोगकेवलिजिणो अजोगी य। चउदस जीवसमासा कमेण सिद्धा य णादव्वा ॥१०॥” इति गोम्मटसारे जीवकाण्डे । “जीवसमास इति किम् ? जीवाः सम्यगासतेऽस्मिन्निति जीवसमासः। क्वासते ? गुणेषु । के गुणाः १ औदयिकौपशमिकक्षायिक-क्षायोपशमिक-पारिणामिका इति गुणाः। गुणसहचरितत्वादात्मापि गुणसंज्ञां प्रतिलभते" इति षट्खण्डागमधवलाटीकायां प्रथमे खण्डे पृ० १६१-१६२॥ पृ० ३५८ पं० ३ भायंतियमरणे। जे १ मध्येऽत्र अंतितमरणे इति पाठः। तदनुसारेण अतितमरणे इति पाठोऽप्यत्र संभवेत् ॥ १ सुसुजं खं० जे१ जेमू०२ मध्ये नास्ति। बृहत्संग्रहण्याष्टीकायां मलयगिरिसूरिभिरपि न निर्दिष्टमिति ध्येयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886