Book Title: Thanangsuttam and Samvayangsuttam Part 3 Tika
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text
________________
कतिपयानि विशिष्टानि टिप्पणानि
७५३
पृ० ३२६ पं० ८ पण्हावागरणाई । अत्र जे १ मध्ये 'पण्ह' इति पाठः । तुला - " जं तमंगपविट्ठ तं बारसविहं— आयारो सूदयदं ठाणं समवाओ वियाहपण्णत्ती नाहधम्म कहा उवाखयज्झयणं अंतयडदसा अणुत्तरोववादियदसा पण्हवायरणं विवायसुतं दिट्टिवादो वेदि " इति कषायप्राभृतस्य जयधवलायां टीकायाम्, पृ० २६ ।
अत्रेदं ध्येयम् — जेसलमेरमध्ये समवायाङ्गसूत्रस्य सवृत्तिकस्य आदर्शद्वयमुपलभ्यते, पूज्यपादमुनिराजश्री पुण्यविजयजीमहाराजसंकलिता 'जेसलमेर दुर्गस्थहस्तप्रति संग्रहगतानां संस्कृत - प्राकृतभाषानिबद्धानां ग्रन्थानां नूतना सूची' प्रकाशिता वर्तते, तदनुसारेण ' क्रमाङ्क ८ - क्रमाङ्क ९१ मध्ये तालपत्रोपरिलिखितम् इदमादर्शद्वयं वर्तते । तत्र ' क्रमाङ्क ८' मध्ये समवायाङ्गसूत्रं १-४५ पत्रेषु वर्तते, ततः परम् अभयदेवसूरिविरचिता टीका ४६ - १३४ पत्रेषु वर्तते, सर्वमिदं विक्रमसंवत् १४८७ वर्षे लिखितम्। ' क्रमाङ्क ९ ' मध्ये १-६४ पत्रेषु समवायानसूत्रं वर्तते, ततः परं ६५ - २१५ पत्रेषु अभयदेवसूरिविरचिता टीका वर्तते, एतत् पुस्तकं 'विक्रमसंवत् १४०१ वर्षे मूल्येन गृहीत्वा रउलाश्रावकेग श्रीजिन चन्द्रसूरिसुगुरोः प्रादायि' इति तत्र प्रान्ते लिखितमस्ति । समवायाङ्गसूत्रस्य संशोधनसमये अस्माकं पुरतः केवलं 'क्रमाङ्क ९ ' मध्ये निर्दिष्टं १-६४ पत्रात्मकं मूलमात्रं समवायानसूत्रमेव आसीत्, तस्यैव च पाठाः जे० इति संकेतेनास्माभिः सर्वत्र निर्दिष्टाः । सम्प्रति तु अस्माकं पुरतः सम्पूर्ण 'क्रमाङ्क ८ क्रमाङ्क ९ द्वयं वर्तते । इतः परं समवायाङ्गस्य टिप्पणेषु ये विशिष्टाः पाठभेदा अस्माभिरुपदर्शयिष्यन्ते तेषु ' क्रमाङ्क ८ ' मध्ये वर्तमानाः पाठाः जे १ इति संकेतेन ज्ञेयाः, ' क्रमाङ्क ९' मध्ये विद्यमानास्तु जे० इति जे २ इति वा संकेतेन ज्ञेयाः ।
पृ० ३३० पं० १३ सुभं सुभकतं... । तुला - " सौधर्मे कल्पे प्रथमे प्रस्तटे जघन्या स्थितिः पल्योपमम्... त्रयोदशे प्रस्तटे शुभकान्त-शुभवर्ण- शुभगन्ध-शुभलेश्य- शुभस्पर्श - सौधर्मावतंसकप्रभृतिषु विमानेषु द्वे परिपूर्णे सागरोपमे उत्कृष्टा स्थितिः । ” इति बृहत्संग्रहण्या [गा० २१] मलयगिरिसूरिविरचितायां टीकायाम् ॥
पृ० ३३२ पं० ४ चंदलेसं चंदक्षयं चंदरूत्रं Do चंदसिंगं । जेसलमेरमध्ये समवायाङ्गस्य तालपत्रोपरिलिखितं प्राचीनं प्रतिद्वयं वर्तते, तत्र जे १ मध्ये खं० मध्ये च ' चंदलेस्सं चंदरूवं चंदसिंग' इत्येव पाठः । जे २ मु० अटी० प्रभृतिषु तु 'चंदलेसं चंदज्ज्ञयं चंदसिंगं' इत्येव पाठः ॥
पृ० ३३९ पं० १ समं समप्पभं... । तुला - " सनत्कुमारस्य प्रथमे प्रस्तटे जघन्या स्थितिद्वै सागरोपमे... । द्वादशे प्रस्तटे संपूर्णानि सप्त सागरोपमाणि उत्कृष्टा स्थितिः । तानि च सम-समप्रभप्रभात भास्वर-त्रिमल-काञ्चनकूट- सनत्कुमारावतंसकप्रभृतिविमानेषु द्रष्टव्यानि । उक्तं च- जे देवा समं समप्प पभासं भासुरं विमलं कं चणकूडं सणकुमारवर्डिसगविमाणं देवत्ताए उवबन्ना तेसि णं देवानं उक्कोण सत्त सागरोवमाइं ठिई पत्ता [समवायाङ्गे सू० ७] इति । ” इति बृहत्संग्रहण्या [गा० २४] मलयगिरिसुरिविरचितायां टीकायाम् ॥
पृ० ३४२ पं० १६, पृ० ३४५ पं० ८. जे देवा अचिं... जे देवा पन्हं सुषम्हं... जे देवा घोसं सुघोसं... । तुला - " ब्रह्मलोके... द्वितीये प्रस्तटे उत्कृष्टा स्थितिरष्टौ सागरोपमाणि । तानि अर्चिरचिर्मालि-वैरोचन-प्रभङ्गर-चन्द्राभ- सूर्याभ- रिष्टाभा-रुणाभानु (sरुणो) त्तरावतसंकप्रभृतिषु विमानेषु । ... चतुर्थे प्रस्तटे नव सागरोपमाणि । तानि ब्रह्म- सुब्रह्म ब्रह्मावर्त ब्रह्मप्रभ-ब्रह्मकान्त ब्रह्मवर्ण ब्रह्मलेश्यब्रह्मोत्तरावतंसक-सूर्य-सूर्यावर्त - सूर्यप्रभ सूर्यकान्त - सूर्योत्तरावतंसकप्रभृतिषु विमानेषु । ... षष्ठे प्रतरे दश अतराणि सागरोपमाणि । तानि च घोष - सुघोष - महाघोष - नन्दिघोष - सुस्वर - मनोरम- रम्य - रम्यकरमणीयब्रह्मलोकावतंसकादिषु विमानेषु । ” इति बृहत्संग्रहण्या [ गा० २६ ] मलयगिरिसूरिविरचितायां टीकायाम् ॥ पृ० ३४२ पं० १६ जे देवा म्हं सुपरहं "सु सुसुमं सुजावतं । इदमत्रावधेयम् -
ठा. ४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886