Book Title: Thanangsuttam and Samvayangsuttam Part 3 Tika
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text
________________
७६२
अष्टमं परिशिष्टम् समोऽन्यूनाधिकमात्रिकरवेन यस्माद् ज्ञायते तत् समतालं विज्ञान, क्वचित्तालमानमिति पाठः ९, द्यूतं सामान्यतः प्रतीतं १०, जनवादं द्यूतविशेषं ११, पाशक-प्रतीतं १२, अष्टापदं-शारिफलकबूतं तद्विषयककलां १३, पुरःकाव्यमिति पुरतः पुरतः काव्यं शीवकवित्वमित्यर्थः १४, 'दगमट्टिअ'मिति दकसंयुक्तमृत्तिका विवेचकद्रव्यप्रयोगपूर्विका तद्विवेचनकलाप्युपचाराद्दकमृत्तिका तां १५, अन्नविधि-सूपकारकलां १६, पानविधि-दकमृत्तिकाकलया प्रसादितस्य सहजनिर्मलस्य तत्तत्संस्कारकरणं, अथवा जलपानविधि जलपानविषये गुणदोषविज्ञानमित्यर्थः, यथा 'अमृतं भोजनस्याद्धे, भोजनान्ते जलं विष 'मित्यादि १७, वस्त्रविधि-वस्त्रत्य परिधानीयादिरूपस्य नवकोगदैविकादिभागयथास्थाननिवेशादिविज्ञानं, वानादिविधिस्तु अनन्तविज्ञानान्तर्गत इति नेह गृह्यते १८. विलेपनविधि-यक्षकईमादिपरिज्ञानं १९, शयनविधि-शयनं शय्या-पल्यङ्कादिस्तद्विधिः, स चैवं-“कर्माङ्गलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम्। अलशतं नृपाणां महती शय्या जयाय कृता॥१॥ नवतिः सैव षडूना द्वादशहीना त्रिषट्कहीना च। नृपपुत्रमन्त्रिबलपतिपुरोधसां स्युर्यथासङ्खयम् ॥ २॥ अर्द्धमतोऽष्टांशोनं विष्कम्भो विशुद्धकर्मणा प्रोक्तः। आयामस्व्यंशसमः पादोच्छायः सकुप्यशिराः॥३॥” इत्यादिकं विज्ञानं, अथवा शयनं-स्वप्नं तद्विषयको विधिस्तं, यथा 'पूर्वस्यां शिरः कुर्यादित्यादिकं विधि २०, आर्या-सप्तचतुःकलगणादिव्यवस्थानिबद्धां मात्राच्छन्दोरूपां २१, प्रहेलिका-गूढाशयपद्यं २२, मागधिकां-छन्दोविशेषं, तल्लक्षणं चेदं-विसमेसु दुन्नि टगणा समेसु पो टो तओ दुसुवि जत्थ। लहुओ कगणो लहुओ कगणो तं मुणह मागहि ॥ १॥ ति [द्वित्रिचतुःपञ्चषड्मात्रिका गणाः कचटतपसंज्ञाः] २२, गाथां-संस्कृतेतरभाषानिबद्धामार्यामेव २४, गीतिका पूर्वार्द्धसदृशाऽपरार्द्धलक्षणामार्यामेव २५, श्लोकं-अनुष्टुपविशेष २६, 'हिरण्ययुक्तिं' हिरण्यस्य-रूप्यस्य युक्ति-यथोचितस्थाने योजनं २७, एवं सुवर्णयुक्तिं २८, चूर्णयुक्ति-कोष्ठादिसुरभिद्रव्येषु चूर्णीकृतेषु तत्तदुचितद्रव्यमेलनं २९, आभरणविधि व्यक्तं ३०, तरुणीपरिकर्म-युवतीनामङ्गसक्रियां वर्णादिवृद्धिरूपां ३१, स्त्रीलक्षण-पुरुषलक्षणे सामुद्रिकप्रसिद्ध ३२-३३, हयलक्षणं 'दीर्घग्रीवाक्षिकूट' इत्यादिकमश्वलक्षणविज्ञानं ३४, गजलक्षणं 'पञ्चोन्नतिः सप्त मृगस्य दैर्ध्यमष्टौ च हस्ताः परिणाहमानम् । एकद्विवृद्धावथ मन्दभद्रौ, सङ्कीर्णनागोऽनियतप्रमाणः॥१॥” इत्यादिकं ज्ञानं ३५, 'गोणलक्खणं 'ति गोजातीयलक्षणं 'सास्नाविलरूशाक्ष्यो मूषिकनयनाश्च न शुभदा गावः' इत्यादिकं ३६, कुकुटलक्षणं 'कुर्कुटजतनुरुहागुलिस्ताम्रवक्रनखचूलिकः सितः' इत्यादिकं ३७, छत्रलचणं यथा चक्रिणां छत्ररत्नस्य ३८, दण्डलक्षणं " यष्टयातपत्राकुशवेत्रचापवितानकुन्तध्वजचामराणाम् । व्यापीत १ तन्त्री २ मधु ३ कृष्ण ४ वर्णा, वर्णक्रमेणैव हिताय दण्डाः ॥१॥ मन्त्रि १ भू २ धन ३ कुल ४ क्षयावहा रोग ५ मृत्यु ६ जननाश्च पर्वभिः। द्वयादिभिबिकविवर्द्धितैः क्रमाद्, द्वादशान्तविरतैः समैः फलम् ॥ २॥ यात्राप्रसिद्धिः १ द्विषतां विनाशो २, लाभाः ३प्रभूता वसुधाऽऽगमश्च ४ । वृद्धिः ५ पशूनामभिवाञ्छिताप्ति ६ स्त्र्यादिष्वयुग्मेषु तदीश्वराणाम् ॥ ३॥" इत्यादि ३९, असिलक्षणं 'अङ्गुलशतार्द्धमुत्तमः ऊनः स्यात्पञ्चविंशति खङ्गः । अंगुलमानाद् शेयो व्रणोऽशुभो विषमपर्वस्थः॥१॥ अत्र व्याख्या-अङ्गलशतार्द्धमुत्तमः खड्गः, पञ्चविंशत्यगुलानि ऊनः, अनयोः प्रमाणयोर्मध्यस्थितः पञ्चाशदङ्गलादूनः पञ्चविंशतेरधिको मध्यमः। अङ्गुलमानाद्-अङ्गुल. प्रमाणाद् यो व्रणो विषमपर्वस्था-विषमपर्वाशले स्थितः प्रथमतृतीयपञ्चमसप्तमादिष्वङ्गुलेषु स्थितः सः अशुभः, अर्धादेव समाङ्गलेषु द्वितीयचतुर्थषष्ठाष्टमादिषु यः स्थितः स शुभः, मिश्रेषु समविषमाङ्गुलेषु मध्यम इत्यादि ४०, मणिलक्षणं रत्नपरीक्षाग्रन्थोक्तकाकपदमक्षिकापदकेशराहि त्यसशर्करतास्ववोचितफलदायित्वादिमणिगुणदोषविज्ञानं ४१, काकणी-चक्रिणो रत्नविशेषस्तस्य लक्षणं-विषहरणमानोन्मानादियोगप्रवर्तकत्वादि ४१, वास्तुनो-गृहभूमेर्विद्या वास्तुशास्त्रप्रसिद्ध गुणदोषविज्ञानं ४२, स्कन्धावारस्य मानं -"एकेभैकरथास्त्यश्वाः, पत्तिः पञ्चपदातिका। सेना सेनामुखं गुल्मो, वाहिनी पृतना चमूः ॥१॥ अनीकिनी च पत्तेः स्यादिभाद्यैस्त्रिगुणैः क्रमात् । दशाकिन्योऽक्षौहिणी' त्यादि ४४, नगरमानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886