Book Title: Thanangsuttam and Samvayangsuttam Part 3 Tika
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 846
________________ कतिपयानि विशिष्टानि टिप्पणानि ७५७ " तेषां च देहोऽद्भुतरूपगन्धो, निरामयः स्वेदमलोज्झितश्च १ | श्वासोऽब्जगन्धो २ रुधिरामिषन्तु, गोक्षीरधाराघवलं ह्यविस्रम् ३ || ५७ | आहारनीहारविधिस्त्वदृश्य ४ श्वत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्रकेऽपि, नृदेव तिर्य्यग्जन कोटिकोटेः ५ ॥ ५८ ॥ वाणी नृतिर्य्यक्सुरलोकभाषासंवादिनी योजनगामिनी च ६ । भामण्डलं चारु च मौलिपृष्ठे, विडम्बिताहपतिमण्डलश्रि ७ ॥ ५९ ॥ साग्रे च गव्यूतिशतद्वये रुजा वैरेतयो मार्य्यतिवृष्टयवृष्टयः ८-१३ । दुर्भिक्षमन्यस्वकचक्रतो भयं १४-१५ स्यान्नैत एकादश कर्म्मघातजाः ॥ ६० ॥ खे धर्मचक्रं १६ चमराः १७ सपादपीठं मृगेन्द्रासनमुज्ज्वलञ्च १८ । . छत्रत्रयं १९ रत्नमयो ध्वजो २० ऽङ्घ्रिन्यासे च चामीकरपङ्कजानि २१ ॥ ६१ ॥ वप्रत्रयं चारु २२ चतुर्मुखाङ्गता २३ वैश्यद्रुमो २४ घोवदनाश्च कण्टकाः २५ । द्रुमानति २६ र्दुन्दुभिनाद उच्चकै २७ तोsनुकूलः २८ शकुनाः प्रदक्षिणाः २९ ॥ ६२ ॥ गन्धाम्बुवर्षे ३० बहुवर्णपुष्पवृष्टिः ३१ कचश्मश्रुनखाप्रवृद्धिः ३२ । चतुर्विधामर्त्यनिकायको टिर्जघन्यभावादपि पार्श्वदेशे ३३ ॥ ६३ ॥ ऋतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी ३४ । एकोनविंशतिर्देव्याश्चतुस्त्रिंशच्च मीलिताः || ६४ ||" इति अभिधानचिन्तामणैौ । केचिद् योगशास्त्रे एकादशप्रकाशे, वीतरागस्तोत्रस्य द्वितीये तृतीये चतुर्थे च प्रकाशे एत एव चतुस्त्रिंशदतिशया अभिधानचिन्तामणिनिर्दिष्टरूपेण वर्णिता आचार्यश्री हेमचन्द्रसूरिभिः ॥ पृ० ३९३ पं० १० अण्णतिस्थिय... २५, आगया... २६ । अत्र वर्णितं "बृहद्वाचनायामिदमन्यदतियद्वयमधीयते यदुत - अन्यतीर्थकप्रावचनिका अपि च णं वन्दन्ते 'भगवन्तम्' इति गम्यते इति पञ्चविंशः २५, आगताः सन्तोऽर्हतः पादमूले निष्प्रतिवचना भवन्ति इति षड्विंशः २६ " इति अटी० वचनात् लघुवाचनायामेतदतिशयद्वयं नासीदिति स्पष्टं प्रतीयते, किन्तु अत्रवर्णिताष्टादशातिशयानन्तरं लघुवाचनायामपरमतिशयद्वयमासीदिति चतुस्त्रिंशदतिशयसंख्या लघुवाचनायामपि पूर्यते, तथाहि – “ तथा कालागुरुपवरकुंदुरुक्कतुरुक्कधूव मघमघंतगंधुद्धयाभिरामे भवइ त्ति कालागुरुश्च गन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कं च चीडाभिधानं गन्धद्रव्यं तुरुक्कं च शिल्हकाभिधानं गन्धद्रव्यमिति द्वन्द्वः, तत एतलक्षणो यो धूपस्तस्य म मधायमानो बहुलसौरभ्यो यो गन्ध उद्भुत उद्भूतस्तेनाभिरामम् अभिरमणीयं यत् तत् तथा, स्थानं निषीदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः १९, तथा उभयोपासि च णं अरहंताणं भगवंताणं दुवे जक्खा कडयतुडियथंभियभुया वामरुक्खेवणं करंति त्ति कटकानि प्रकोष्ठाभरणविशेषाः, त्रुटितानि बाहा - भरणविशेषाः, तैरतिबहुत्वेन स्तम्भिताविव स्तम्भितौ भुजौ ययोस्तौ तथा यक्षौ देवाविति विंशतितमः २०, बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाधीयते, अतस्तस्यां पूर्वेऽष्टादशैव" इति अटी० वचनादेतदतिशयद्वयं लघुवाचनायामेवासीत् । एवं च अत्र वर्णिताः ३४ अतिशया बृहद्वाचनानुसारेण शेयाः । दिगम्बराणां मतेन चतुस्त्रिंशदतिशयाः किञ्चिद् भिन्नाः, तथाहि " णिस्सेदत्तं १ णिम्मलगत्चत्तं २ दुद्धधवलरुहिरत्तं ३ | आदिमसंहडणतं ४ समचउरस्संगसंठाणं ५ ॥ ८९६ ॥ अणुवमरूवत्तं ६ णवचंपयवरसुरहिगंधधारितं ७ | अद्भुत्तरवरलक्खणसहस्सधरणं ८ अनंतबलविरियं ९ ॥ ८९७ ॥ मिद हिदमधुरालाओ १० साभावियअदिसयं च दसभेदं । एदं तित्थयराणं म्हणादि उप्पण्णं || ८९८ ॥ जोयणसदमजादं सुभिक्खदा चउदिसासु नियराणा ११ । णहगमणाणमहिंसा १२ - १३ भोयणउवसग्गपरिहीणा १४-१५ ।। ८९९ ॥ सव्वाहिमुहट्ठियत्तं १६ अच्छायत्तं १७ अपहदित्तं १८ । विज्जाणं ईसत्तं १९ समणहरोमत्तणं सजीवम्हि २० ॥ ९०० ॥ अट्ठरस महाभासा खुल्लभासासयाईं सत्त तहा। अक्खरअणक्खरप्पय सण्णीजीवाण सयलभासाओ ।। ९०९ ॥ एदासुं भासा तालुवदंतोडकंठवावारे । परिहरिय एककालं भव्वजणे दिव्वभासितं ॥ ९०२ ॥ पगदीए अक्खलिओ संत्तिदयम्मि णव मुहुत्ताणि । णिस्सरदि णिरुवमाणो दिव्वझुणी जाव जोयणयं ॥ ९०३ ॥ सेसेसुं समएसुं गणहरदेविंदचकवट्टीणं । पण्हाणुरूवमत्थं दिव्वझुणी अ सत्तभंगीहिं ॥ ९०४ ॥ छद्दव्व णवपयत्थे पंचट्ठीकाय सत्ततच्चाणि । णाणाविहद्देदूहिं दिग्वणी भणइ भव्वाणं २९ ॥ ९०५ ॥ घादिकखण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886