________________
कतिपयानि विशिष्टानि टिप्पणानि
७५७
" तेषां च देहोऽद्भुतरूपगन्धो, निरामयः स्वेदमलोज्झितश्च १ | श्वासोऽब्जगन्धो २ रुधिरामिषन्तु, गोक्षीरधाराघवलं ह्यविस्रम् ३ || ५७ | आहारनीहारविधिस्त्वदृश्य ४ श्वत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्रकेऽपि, नृदेव तिर्य्यग्जन कोटिकोटेः ५ ॥ ५८ ॥ वाणी नृतिर्य्यक्सुरलोकभाषासंवादिनी योजनगामिनी च ६ । भामण्डलं चारु च मौलिपृष्ठे, विडम्बिताहपतिमण्डलश्रि ७ ॥ ५९ ॥ साग्रे च गव्यूतिशतद्वये रुजा वैरेतयो मार्य्यतिवृष्टयवृष्टयः ८-१३ । दुर्भिक्षमन्यस्वकचक्रतो भयं १४-१५ स्यान्नैत एकादश कर्म्मघातजाः ॥ ६० ॥ खे धर्मचक्रं १६ चमराः १७ सपादपीठं मृगेन्द्रासनमुज्ज्वलञ्च १८ । . छत्रत्रयं १९ रत्नमयो ध्वजो २० ऽङ्घ्रिन्यासे च चामीकरपङ्कजानि २१ ॥ ६१ ॥ वप्रत्रयं चारु २२ चतुर्मुखाङ्गता २३ वैश्यद्रुमो २४ घोवदनाश्च कण्टकाः २५ । द्रुमानति २६ र्दुन्दुभिनाद उच्चकै २७ तोsनुकूलः २८ शकुनाः प्रदक्षिणाः २९ ॥ ६२ ॥ गन्धाम्बुवर्षे ३० बहुवर्णपुष्पवृष्टिः ३१ कचश्मश्रुनखाप्रवृद्धिः ३२ । चतुर्विधामर्त्यनिकायको टिर्जघन्यभावादपि पार्श्वदेशे ३३ ॥ ६३ ॥ ऋतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी ३४ । एकोनविंशतिर्देव्याश्चतुस्त्रिंशच्च मीलिताः || ६४ ||" इति अभिधानचिन्तामणैौ । केचिद् योगशास्त्रे एकादशप्रकाशे, वीतरागस्तोत्रस्य द्वितीये तृतीये चतुर्थे च प्रकाशे एत एव चतुस्त्रिंशदतिशया अभिधानचिन्तामणिनिर्दिष्टरूपेण वर्णिता आचार्यश्री हेमचन्द्रसूरिभिः ॥
पृ० ३९३ पं० १० अण्णतिस्थिय... २५, आगया... २६ । अत्र वर्णितं "बृहद्वाचनायामिदमन्यदतियद्वयमधीयते यदुत - अन्यतीर्थकप्रावचनिका अपि च णं वन्दन्ते 'भगवन्तम्' इति गम्यते इति पञ्चविंशः २५, आगताः सन्तोऽर्हतः पादमूले निष्प्रतिवचना भवन्ति इति षड्विंशः २६ " इति अटी० वचनात् लघुवाचनायामेतदतिशयद्वयं नासीदिति स्पष्टं प्रतीयते, किन्तु अत्रवर्णिताष्टादशातिशयानन्तरं लघुवाचनायामपरमतिशयद्वयमासीदिति चतुस्त्रिंशदतिशयसंख्या लघुवाचनायामपि पूर्यते, तथाहि – “ तथा कालागुरुपवरकुंदुरुक्कतुरुक्कधूव मघमघंतगंधुद्धयाभिरामे भवइ त्ति कालागुरुश्च गन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कं च चीडाभिधानं गन्धद्रव्यं तुरुक्कं च शिल्हकाभिधानं गन्धद्रव्यमिति द्वन्द्वः, तत एतलक्षणो यो धूपस्तस्य म मधायमानो बहुलसौरभ्यो यो गन्ध उद्भुत उद्भूतस्तेनाभिरामम् अभिरमणीयं यत् तत् तथा, स्थानं निषीदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः १९, तथा उभयोपासि च णं अरहंताणं भगवंताणं दुवे जक्खा कडयतुडियथंभियभुया वामरुक्खेवणं करंति त्ति कटकानि प्रकोष्ठाभरणविशेषाः, त्रुटितानि बाहा - भरणविशेषाः, तैरतिबहुत्वेन स्तम्भिताविव स्तम्भितौ भुजौ ययोस्तौ तथा यक्षौ देवाविति विंशतितमः २०, बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाधीयते, अतस्तस्यां पूर्वेऽष्टादशैव" इति अटी० वचनादेतदतिशयद्वयं लघुवाचनायामेवासीत् । एवं च अत्र वर्णिताः ३४ अतिशया बृहद्वाचनानुसारेण शेयाः ।
दिगम्बराणां मतेन चतुस्त्रिंशदतिशयाः किञ्चिद् भिन्नाः, तथाहि
" णिस्सेदत्तं १ णिम्मलगत्चत्तं २ दुद्धधवलरुहिरत्तं ३ | आदिमसंहडणतं ४ समचउरस्संगसंठाणं ५ ॥ ८९६ ॥ अणुवमरूवत्तं ६ णवचंपयवरसुरहिगंधधारितं ७ | अद्भुत्तरवरलक्खणसहस्सधरणं ८ अनंतबलविरियं ९ ॥ ८९७ ॥ मिद हिदमधुरालाओ १० साभावियअदिसयं च दसभेदं । एदं तित्थयराणं म्हणादि उप्पण्णं || ८९८ ॥ जोयणसदमजादं सुभिक्खदा चउदिसासु नियराणा ११ । णहगमणाणमहिंसा १२ - १३ भोयणउवसग्गपरिहीणा १४-१५ ।। ८९९ ॥ सव्वाहिमुहट्ठियत्तं १६ अच्छायत्तं १७ अपहदित्तं १८ । विज्जाणं ईसत्तं १९ समणहरोमत्तणं सजीवम्हि २० ॥ ९०० ॥ अट्ठरस महाभासा खुल्लभासासयाईं सत्त तहा। अक्खरअणक्खरप्पय सण्णीजीवाण सयलभासाओ ।। ९०९ ॥ एदासुं भासा तालुवदंतोडकंठवावारे । परिहरिय एककालं भव्वजणे दिव्वभासितं ॥ ९०२ ॥ पगदीए अक्खलिओ संत्तिदयम्मि णव मुहुत्ताणि । णिस्सरदि णिरुवमाणो दिव्वझुणी जाव जोयणयं ॥ ९०३ ॥ सेसेसुं समएसुं गणहरदेविंदचकवट्टीणं । पण्हाणुरूवमत्थं दिव्वझुणी अ सत्तभंगीहिं ॥ ९०४ ॥ छद्दव्व णवपयत्थे पंचट्ठीकाय सत्ततच्चाणि । णाणाविहद्देदूहिं दिग्वणी भणइ भव्वाणं २९ ॥ ९०५ ॥ घादिकखण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org