Book Title: Tattvasangraha Part 01 Author(s): Dwarikadas Shastri Publisher: Bauddh BharatiPage 10
________________ तत्त्वसंग्रहे वस्तुतो लुप्ता भारतीसम्पद् पुनरुज्जीविता । अतोऽयं मनीषी प्राच्यविद्याप्रतिष्ठानानाम्, दर्शनेषु सञ्जातरुचीनां विदुषां चातीव धन्यवादार्हः । गायकवाड़ग्रन्थमालासंस्करणमेकां त्रुटितामत एवापूर्णां मातृकामुपजीव्य सम्पन्नमासीत्। नवनालन्दामहाविहारस्य पुस्तकालये स्माभिरेका पुराणमातृकायाचित्रप्रतिकृतिरुपलब्धा, यत्र सर्वास्त्रुटयः सम्पूरिता इव दृश्यन्ते। अहमस्मन्मित्राणि स्वामिद्वारिकादासमहोदयाननुरुणध्मि यत्ते इमां मातृकामप्यवश्यमेव परिशीलयेयुः। इदं सन्तोषावहमेव यदद्यत्वेऽप्यस्मिन्नधुनातने धर्मनिरपेक्षे संस्काराच्युते च भारते संस्कृताध्ययनाध्यापनं मनीषिभ्यो रोचत एव। भारतस्य पुनरुत्थानं संस्कृतभाषयैव भविष्यतीति मे बलिष्ठो विश्वासः । यद्यप्यधुना संस्कृतस्य शतानवनवतिर्ग्रन्था अस्मद्दौर्भाग्येण लुप्ता एव, तथापि येऽवशिष्टास्तेऽप्यस्मान् प्राचीनभारतस्य दार्शनिकतत्त्वज्ञानं प्रति सततं जागरूकान् विदधति। .. इदञ्च मदीयं कर्त्तव्यं यद्यूनां संस्कृतविदुषां लेखनकार्याणि विद्वज्जनपर्षदि समुपस्थायेयम्। एषु युवसु विद्वत्स्वेकः स्वामी द्वारिकादासशास्त्री, गर्वितोऽहमस्योपलब्धौ-इति कथयन्नहं न केवलं ममैव, अपि तु विद्वजनपर्षदोऽपि हा प्रकटयामीति मे दृढो विश्वासः । रतमा पो० आ० दक्षिणग्रामः, ।. वीरभूममण्डलम्, (वङ्गप्रदेशः) सातकारी मुकर्जी ११. ७. ६८Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 444