Book Title: Tattvasangraha Part 01 Author(s): Dwarikadas Shastri Publisher: Bauddh BharatiPage 17
________________ आमुखम् - माध्यमिकवादः – सर्वशून्यवादिनो माध्यमिकाः पुनरेवं मन्यन्ते – सर्वं वस्तु स्वगुणसमाहारमात्रम् । एवं सति आत्मा स्वगुणाच्चैतन्यादतिरिक्तं नान्यत् किञ्चिद्वस्तु । यद्यात्मा स्वकर्मभिर्दर्शनस्पर्शनादिभिर्भिन्नः, तर्हि इमानि दर्शनस्पर्शनादीन्यपि किमात्मना विना न भवितुं शक्नुयुः ! एषां मते - सर्वमिदं चराचरं शून्यम् । किमिदं शून्यम् ? शून्यं परमं तत्त्वम् । तथा ह्याहु: १५ "न सन्नासन्न सदसन्न चाप्यनुभयात्मकम् । चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ॥" तदिदं शून्यं सदसद्विशिष्टं किमप्यनिवर्चनीयं वस्तु । इदं न भावात्मकम्, नाप्यभावात्मकम्। इदमेव माध्यमिकानां मध्यमा प्रतिपदा । शून्यवादग्रन्थेषु विंशतिः शून्यता निरूपिताः । माध्यमिकानां नये शून्यमेव केवलं तत्त्वम्। वस्तुतस्तु तत्त्वमिदं तर्काप्रतिष्ठम् । तर्केण हि सदसद्वस्तून्येव प्रमाणयितुं शक्यन्ते । तत्तु सदसद्विलक्षणम्, तन्न तर्केण तोलयितुं शक्यम् । इदं शून्यतत्त्वमौपनिषदमनिर्वचनीयतत्त्वमिव । योगाचार : ( विज्ञानवादः ) - आर्य - असङ्गमहाभागा विज्ञानवादस्य प्रथमे प्रवक्तारः । आर्यमैत्रेयश्च अस्य प्रतिष्ठापकः । महायानसूत्रालङ्कारमनयोरेव रचना । तत्र मूलम् मैत्रेयस्य, टीका चासङ्गस्येति सर्वे विदन्त्येव । इदमार्यासङ्गस्य दर्शनं समन्वयमूलकम् । अत्र वैभाषिकाणां पुद्गलनैरात्म्यम्, सौत्रान्तिकानां क्षणिकवादः, मध्यमकानां नागार्जुनप्रमुखाणां शून्यतावादश्चेत्येते सर्वेऽपि वादाः प्रतिपादिताः । परमार्यासङ्गस्य एष समन्वयः पारमार्थिको विज्ञानवादः । अयं विज्ञानवादोऽद्वयवाद एव, यत्र द्रव्यस्याभावः प्रतिपाद्यते । अस्मिन् वादेः सम्बोधिप्राप्त्यर्थं योगस्य सर्वातिशायिनी प्रतिष्ठा दृश्यते । अत्र विज्ञानमेव सत्त्वम्। तदिदं सर्वं दृश्यमानमनुभूयमानमाध्यात्मिकं भौतिकं च जगत् विज्ञानाधिष्ठितम्, विज्ञानमयमेव। तदिदं सर्वात्मकं विज्ञानम् 'आलयविज्ञानम्' इत्यभिधीयते तच्च कालस्थितिभेदेनानन्तभेर्दैर्भिद्यते । सर्वमपि जगत् आलयविज्ञानत उत्पद्यते, तत्रैव च लीयते । ज्ञेयम्, ज्ञाता - इत्युभयमप्यालयविज्ञान एवावतिष्ठते । अस्मिन् वादेऽष्टौ विज्ञानानि भवन्ति । तानि यथा— चक्षुः श्रोत्रघ्राणजिह्वाविज्ञानानि चत्वारि । पञ्चमं कायविज्ञानम् । षष्ठं मनोविज्ञानम् । सप्तमं क्लिष्टमनोविज्ञानम् । अष्टमञ्च आलयविज्ञानमिति संक्षेपः । अत्र, परिकल्पित-परतन्त्र-परिनिष्पन्नभेदेन ज्ञानस्य त्रैविध्यं स्वीकृतम् । स्वप्रावस्थायां प्राप्तं ज्ञानं परिकल्पितं भवति; तस्याधारस्य कल्पनामात्रत्वात् । यदर्थं च पूर्वज्ञानमपेक्ष्यते तत्परतन्त्रमिति कथ्यते; तस्य पूर्वज्ञानाधीनत्वात् । यथा हि - श्वस्तननीलज्ञाने इदानीन्तननीलज्ञानं कारणमिति श्वस्तननीलज्ञानं परतन्त्रम् । तत्रेदानीन्तननीलज्ञानं बीजरूपेणावतिष्ठते । यदा हि एतादृशानि बीजज्ञानानि नोत्पद्यन्ते तेषां पूर्वज्ञानानां क्षयो भवति, तदा तज्ज्ञानं परिनिष्पन्नमित्यभिधीयते । परिकल्पितं ज्ञानं भ्रान्तिमात्रम्, यथा रज्जौ सर्पज्ञानम् । परतन्त्रं ज्ञानमपि व्यवहारमात्रम्, यथा रज्वां रज्जुत्वप्रकारकं ज्ञानम् । परिनिष्पन्नं ज्ञानं तु पारमार्थिकं सत्यम्, यथा 'सर्वं बुद्धिमयं जगत्' । इदं परिनिष्पन्नं ज्ञानं योगेनैव लब्धुं शक्यते । अविद्यामूलको हि व्यक्तिभेदः । विज्ञानस्य कर्मसंस्कारैः सह संयोग एवं अविद्यामूलम् । अविद्ययैवPage Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 444