________________
आमुखम्
-
माध्यमिकवादः – सर्वशून्यवादिनो माध्यमिकाः पुनरेवं मन्यन्ते – सर्वं वस्तु स्वगुणसमाहारमात्रम् । एवं सति आत्मा स्वगुणाच्चैतन्यादतिरिक्तं नान्यत् किञ्चिद्वस्तु । यद्यात्मा स्वकर्मभिर्दर्शनस्पर्शनादिभिर्भिन्नः, तर्हि इमानि दर्शनस्पर्शनादीन्यपि किमात्मना विना न भवितुं शक्नुयुः ! एषां मते - सर्वमिदं चराचरं शून्यम् । किमिदं शून्यम् ? शून्यं परमं तत्त्वम् । तथा
ह्याहु:
१५
"न सन्नासन्न सदसन्न चाप्यनुभयात्मकम् । चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ॥"
तदिदं शून्यं सदसद्विशिष्टं किमप्यनिवर्चनीयं वस्तु । इदं न भावात्मकम्, नाप्यभावात्मकम्। इदमेव माध्यमिकानां मध्यमा प्रतिपदा ।
शून्यवादग्रन्थेषु विंशतिः शून्यता निरूपिताः । माध्यमिकानां नये शून्यमेव केवलं तत्त्वम्। वस्तुतस्तु तत्त्वमिदं तर्काप्रतिष्ठम् । तर्केण हि सदसद्वस्तून्येव प्रमाणयितुं शक्यन्ते । तत्तु सदसद्विलक्षणम्, तन्न तर्केण तोलयितुं शक्यम् । इदं शून्यतत्त्वमौपनिषदमनिर्वचनीयतत्त्वमिव ।
योगाचार : ( विज्ञानवादः ) - आर्य - असङ्गमहाभागा विज्ञानवादस्य प्रथमे प्रवक्तारः । आर्यमैत्रेयश्च अस्य प्रतिष्ठापकः । महायानसूत्रालङ्कारमनयोरेव रचना । तत्र मूलम् मैत्रेयस्य, टीका चासङ्गस्येति सर्वे विदन्त्येव । इदमार्यासङ्गस्य दर्शनं समन्वयमूलकम् ।
अत्र वैभाषिकाणां पुद्गलनैरात्म्यम्, सौत्रान्तिकानां क्षणिकवादः, मध्यमकानां नागार्जुनप्रमुखाणां शून्यतावादश्चेत्येते सर्वेऽपि वादाः प्रतिपादिताः । परमार्यासङ्गस्य एष समन्वयः पारमार्थिको विज्ञानवादः । अयं विज्ञानवादोऽद्वयवाद एव, यत्र द्रव्यस्याभावः प्रतिपाद्यते । अस्मिन् वादेः सम्बोधिप्राप्त्यर्थं योगस्य सर्वातिशायिनी प्रतिष्ठा दृश्यते । अत्र विज्ञानमेव सत्त्वम्। तदिदं सर्वं दृश्यमानमनुभूयमानमाध्यात्मिकं भौतिकं च जगत् विज्ञानाधिष्ठितम्, विज्ञानमयमेव। तदिदं सर्वात्मकं विज्ञानम् 'आलयविज्ञानम्' इत्यभिधीयते तच्च कालस्थितिभेदेनानन्तभेर्दैर्भिद्यते । सर्वमपि जगत् आलयविज्ञानत उत्पद्यते, तत्रैव च लीयते । ज्ञेयम्, ज्ञाता - इत्युभयमप्यालयविज्ञान एवावतिष्ठते । अस्मिन् वादेऽष्टौ विज्ञानानि भवन्ति । तानि यथा— चक्षुः श्रोत्रघ्राणजिह्वाविज्ञानानि चत्वारि । पञ्चमं कायविज्ञानम् । षष्ठं मनोविज्ञानम् । सप्तमं क्लिष्टमनोविज्ञानम् । अष्टमञ्च आलयविज्ञानमिति संक्षेपः ।
अत्र,
परिकल्पित-परतन्त्र-परिनिष्पन्नभेदेन ज्ञानस्य त्रैविध्यं स्वीकृतम् । स्वप्रावस्थायां प्राप्तं ज्ञानं परिकल्पितं भवति; तस्याधारस्य कल्पनामात्रत्वात् । यदर्थं च पूर्वज्ञानमपेक्ष्यते तत्परतन्त्रमिति कथ्यते; तस्य पूर्वज्ञानाधीनत्वात् । यथा हि - श्वस्तननीलज्ञाने इदानीन्तननीलज्ञानं कारणमिति श्वस्तननीलज्ञानं परतन्त्रम् । तत्रेदानीन्तननीलज्ञानं बीजरूपेणावतिष्ठते । यदा हि एतादृशानि बीजज्ञानानि नोत्पद्यन्ते तेषां पूर्वज्ञानानां क्षयो भवति, तदा तज्ज्ञानं परिनिष्पन्नमित्यभिधीयते । परिकल्पितं ज्ञानं भ्रान्तिमात्रम्, यथा रज्जौ सर्पज्ञानम् । परतन्त्रं ज्ञानमपि व्यवहारमात्रम्, यथा रज्वां रज्जुत्वप्रकारकं ज्ञानम् । परिनिष्पन्नं ज्ञानं तु पारमार्थिकं सत्यम्, यथा 'सर्वं बुद्धिमयं जगत्' । इदं परिनिष्पन्नं ज्ञानं योगेनैव लब्धुं शक्यते । अविद्यामूलको हि व्यक्तिभेदः । विज्ञानस्य कर्मसंस्कारैः सह संयोग एवं अविद्यामूलम् । अविद्ययैव