________________
१६
तत्त्वसंग्रहे
सुखदुःखयोः, शुभाशुभयोः, साध्वसाध्वोर्भेदः प्रतीयते । यैः प्रयत्नैः विज्ञानस्य शुद्धं रूपं विकासमेति त एव मुक्तये कल्पन्ते ।
इत्थं सौगतवादानां दिङ्मात्रमिह दर्शितम् । विस्तरस्तु यथाशास्त्रं कार्यो मेधाविभिः स्वयम् ॥
!
७
ग्रन्थस्यास्य प्रतिपाद्यं वस्तु - इत्थमेतावतास्माभिः संक्षेपेण बौद्धानां निकायभेदेन तेषां सिद्धान्तो विमृष्टः । इदानीं सौगतसिद्धान्तप्रतिपादनपटोरस्य तत्त्वसंग्रहस्य प्रतिपाद्यो वादो विमृश्यते । अस्मिन् तत्त्वसंग्रहे आचार्यः परसिद्धान्तनिरसनैकलक्ष्यो न प्रकाशयति स्वसम्मतवादप्रक्रियाम् । अविज्ञाततत्सम्मतवादप्रक्रियस्तु जिज्ञासुर्नात्र गभीरं प्रवेष्टं प्रभवतीत्यभिलक्ष्यात्रापि किञ्चिद् वक्ष्यते । उपर्युक्तेषु चतुर्षु वादेषु शान्तरक्षितस्य कः पक्षोऽभिप्रेतः ? इत्यत्र वयमेतदेव ब्रूमः - अयं हि ग्रन्थकारः नैरात्म्यबोधनैकहृदयान् सौगतंसिद्धान्तान् सुखप्रचारान् विधातुकामस्तात्कालिककापिलनैयायिक-मीमांसकादिवादान् एकैकशः सुदृढं निरस्यति । स्वसिद्धान्तसमर्थनोद्यतस्य पराभिमतनिरसनमिव स्वसिद्धान्तस्फोरणमपि प्रथमं कर्तव्यमासीत् परं ग्रन्थेऽस्मिन् तत्र तत्र परपक्षनिरसन इव स्वसम्मतप्रक्रियावर्बोधनेऽस्य समादरो न दृश्यते । नात्र स्कन्धायतनादयः प्रतीत्यसमुत्पादा विस्तरशो निरूपिताः, नापि तत्प्रकार:, न वा चित्तचैत्तादिविभागः, न वा मार्गप्रक्रिया । अतोऽस्य ग्रन्थस्य ये साक्षाद्विरोधिनः कापिलादयस्तेषां वादानां निरसन एव तात्पर्यमिति निश्चीयते । अत एवायं परैः सह तंत्र तत्र विरोधे वैभाषिकसौत्रान्तिकादीनात्मीयेषु गणयन् समर्थयत एव। ग्रन्थहृदयं सर्वतोऽनुशीलयतां स्पष्टमिदं विज्ञायेतास्य परमतनिरसनलक्षणवादैकपरता । परमतनिरसनशेषतया त्वस्य मतमपि क्वचित् क्वचिद् गम्यते । तेनैतदनुमिनुमो यद् विज्ञानवाद एवात्र प्रस्तुत इति । आचार्यस्य को वादोऽभिप्रेतः ? यद्यपि विद्वांस आचार्यं शान्तरक्षितं स्वातन्त्रिकमाध्यमिकमाचक्षते । परन्तु नात्राचार्येण स्वातन्त्रिकमाध्यमिकप्रक्रिया क्वचिदपि विस्तरेण निरूपिता । सा प्रक्रिया मन्ये स्वरचित्तेऽन्यस्मिन् मध्यमकालङ्कारनामके, परमार्थविनिश्चये वा ग्रन्थे विवृता भवेदिति ।
I
आचार्यः शान्तरक्षितः - सोऽयं शान्तरक्षितो वङ्गभूमौ ढाकामण्डले. विक्रमपुरानुमण्डले, जाहोराख्ये ग्रामे क्षत्रियकुले ख्रिष्टीयाष्टमशतकस्यादिमे भागे जातः । आचार्यबोधिसत्त्वा-. परनामधेयोऽयं नालन्दायां बौद्धमहाविहारे आचार्यपदमधिरूढः । अन्ते च तदानीन्तनेन भोटदेशाधिपतिना स्वदेशं सादरमाहूतस्तत्र बौद्धसिद्धान्तान् प्रचारयामास । अनेनाऽपरेऽपि ग्रन्था ग्रन्थिताः । यथा—धर्मकीर्तिकृते र्वादन्याये विपञ्चितार्था टीका, मध्यमकालङ्कारग्रन्थ इत्यादयः । इत्येषोऽस्य जीवन-वृत्तसंक्षेपः ।
ĭ
तच्छिष्यः कमलशीलः - अस्य ग्रन्थस्य 'पञ्जिका' व्याख्याकार आचार्यः कमलशीलस्तु आचार्यशान्तरक्षितस्यैव शिष्यः, तस्यैव च समये नालन्दायां बौद्धमहाविहारे तन्त्रशास्त्रे - ऽध्यापकपदमलमकार्षीत् । अनेन 'न्यायबिन्दुपूर्वपक्षसंक्षेप' प्रभृतयोऽन्येऽपि निबन्धा निबद्धा: - इत्यैतिह्यविदः ।
इदं संस्करणम्
१. संस्करणमिदमस्माभिः जैसलमेरदुर्गस्थजिनभद्रसूरीश्वरताडपत्रीयजैन