________________
१७
आमुखम् ज्ञानभाण्डागारे (क्र० ३७७-३७८) निहितामनुमानत एकादश्यां द्वादश्यां वा शताब्यां ताडपत्रेषु लिखितां मातृकामुपजीव्य सम्पादितम् । तत्र कारिकाः पृथग् लिखिताः, पञ्जिका ला पृथगिति तन्मातृकाद्वयमपि स्वीकर्तुं शक्यते । भवतु नाम। एषा मातृका क्व कदा केन वा लखितेति सर्वतस्तदनुशीलनेनापि नास्माभिर्ज्ञातुं पारितम्। तस्याः सप्ताशीत्यधिकैकशततमेऽन्तिमे (१८७) पृष्ठे एतावदेव लिखितम्
"छ॥छ। ग्रन्थाग्रं ३९९७ । छ। कमलशीलसूत्रं समाप्तमिति । छ। मंगल-महाश्रीः॥ छ॥ शुभं भवतु लेखकपाठकयोः॥"
उक्तभाण्डागारस्य प्रबन्धाधिकारिभिः मातृकावेष्टने लिखितमस्ति
"३७८. तत्त्वसंग्रहपंजिकावृत्ति (कमलशीलवृत्ति) पत्र ३१३ अनु० १२ मां शैकानु उत्तरार्ध । पत्रमाप-२४ इञ्च पत्र ३१३"
एतेन न किमपि स्पष्टं ज्ञायते यदेषा मातृका व कदा केन वा लिखितेति । केवलं वर्णरचनामाश्रित्य वयमेतावदेवानुमिनुमो यदियं मातृका दशमशताब्यामेकादशशताब्द्यां वा क्वचिदुत्तरस्मिन् भारते एव केनापि लिखिता। प्रायः शुद्धतमेयं मातृकेति अस्या लेखको १ बौद्धदर्शनं विद्वान्-इति वयं मन्यामहे। । २. अस्त्यस्मिन्नेव भाण्डागारे एका अन्यापि पत्रेषु लिखिता मातृ-का, सा तु एकोनविंशशताब्द्या अन्तिमे भागे जैसलमेरदुर्गस्थेन केनाप्याचार्यगोत्रोत्पन्नेन ब्राह्म गेन लिखिता, प्रमादवशाद् भ्रष्टपाठबहुला केवलमुक्तमातृकायाः सामान्येन प्रतिलिपिमात्रम् । अतो न तयाऽस्माकं किमपि कार्यं सिद्धम्। .... ३. मातृकाणामनुशीलनप्रसङ्गेऽस्माभिः पाटणस्थश्रीहेमचन्द्रजैनग्रन्थमन्दिरश्रीबाडीपार्श्वनाथजीजैनज्ञानमन्दिरस्थायाः प्रसिद्धायाः मातृकाया अपि, यतो गायकवाडसंस्क. गं प्रकाशमाप्तम्, नवनालन्दामहाविहारे चित्राकृतिः परिशीलिता। अस्या अन्तिमपृष्ठे लेखकेन लिखतम्
"कमलशीलाभिधानपुस्तकं समाप्तमिति। शुभं भवतु। छ। कल्याणमस्तु। छ। नंगलमस्तु ॥ छ । दीर्घायुरस्तु ॥ छ । श्रीः ॥ १॥ संवत् १४९२ वर्षे कार्तिक शु० वदि ३ तृतीयां रविवासरे श्रीमदंणहिल्लपुरपत्तने। मा० १६१०२।"
अनेन स्पष्टमेव ज्ञायते यदियं मातृका पञ्चदशशताब्द्यामणहिल्लपुरपत्तने लिखितेति । अथ चास्या मातृकायाः परिशीलनेन वयं दृढं विश्वसिमो यदियं मातृका जैसलमेरदुर्गस्थभाण्डागारस्थमातृकात एव लिखता; यतो यत्र यत्र तस्यां मातृकायां पाठो भ्रष्टस्त्रुटितो वा, तत्र तत्रास्यामपि स पाठस्त्ववश्यं भ्रष्टस्त्रुटितो वा दृश्यते। जडधिया लेखकेन च प्रमादात् पदे पदे अन्यान्यपि स्वबुद्धिमान्द्यजानि सहस्राणि स्खलितानि कृतानीति विदुषां चेतांसि दोदूयन्ते एव।।
४. यद्यपि वटोदरस्थ-गायकवाडग्रन्थमालात: १९२६तमे ख्रिष्टाब्दे प्रकाशितं संस्करणं पाटणस्थमातृकामुपजीव्यैव विदुषा सम्पादकेन श्रीएम्बरकृष्णमाचार्यमहाभागेन सम्पादितम्, तथापि तेन विदुषा दर्शनानां स्वकीयगभीरज्ञानसाहाय्येन बहु संशोधितमिति हृदयेन स्वीकृत्य तम्प्रति स्वकीयां कृतज्ञतां प्रकाशयामः । एतत्संस्करणमप्यस्माभिरादर्शपुस्तकत्वेन गृहीतम्।