________________
तत्त्वसंग्रहे
एवं तत्त्वसंग्रहस्य मूलसंशोधने त्रीण्येवेमानि पुस्तकान्यस्माभिरादर्शत्वेन गृहीतानि । टीकायाः (पञ्जिकायाः) संशोधने तु एतदतिरिक्तं यत्र यत्रान्येषां ग्रन्थानामुद्धरणान्यागतानि तेषां संशोधने तेषां ग्रन्थानाम् (इदानीमुपलभ्यमानग्रन्थानाम् ) संस्करणान्यपि गृहीतानि । सम्पादनशैली – अस्य ग्रन्थस्य सम्पादनेऽस्माभिरेषा शैली अनुसृता
१. प्रायो मूलपाठः पञ्जिकापाठश्च सर्वत्र जैसलमेरमातृकामुपजीव्यैव स्वीकृतः; केवलं यत्र तत्रस्थस्तस्याः सर्वथाऽशुद्धः पाठ एक टिप्पण्यां स्थापितः । तत्र च गायकवाडसंस्करणस्थः पाठः, पाटणमातृकपाठो वा गृहीतः । क्वचिद्विशिष्टेषु स्थलेषु एषां त्रयाणामपि पुस्तकानां पाठस्यासङ्गततया तत्रास्माभिः भोटभाषानुवादपाठो दत्तः, एषां च पाठष्टिप्पण्यां स्थापितः ।
१८
२. संस्करणेऽस्मिन् सर्वत्र तत्त्वसंग्रहकारिकाणां तावन्तोंऽशास्तथा पृथक्कृत्य स्थापिताः, ये श्रीकमलशीलव्याख्यया यावन्तो यथा च व्याख्याताः । एतेनाध्येतॄणां सौकर्यं स्यात् ।
३. बोद्धृणां सौकर्याय ग्रन्थेऽस्मिन्नुद्धृतानामपरदार्शनिकानां ग्रन्थानाम् (इदानीमुपलभ्यमानानामेव) स्थलसङ्केतोऽपि तत्र तत्रोद्धरणतोऽनुपदमेव कोष्ठके कृतः । ये त्विदानीमनुपलभ्यमानाः ग्रन्थास्तेषामपि उद्धरणानि तद्बोधकचिह्नं दत्वा 'कश्चिद्विद्वान् स्वाध्यायकाले इदं पूरयेत्' इति बुद्ध्या रिक्तकोष्ठकमेव स्थापितम् ।
४. उद्द्योतकरोक्तान्युद्धरणानि तु अस्माभिर्न पूरितानि, न्यायवार्त्तिके· तेषामक्षरशोऽनुपलम्भात् । उद्द्योतकरेण कस्यचिदन्यग्रन्थस्य प्रणयनसम्भवाच्च । यदि द्वितीयभागस्य मुद्रणावधिपर्यन्तमस्मन्मित्राणि विद्वांस एतन्निर्णयेयुर्यत् तानि उद्धरणानि न्यायवार्त्तिकस्यैव सन्तीति, तर्हि वयमुद्धरणसूच्यां तेषामपि स्थानसङ्केतं विदध्याम ।
५. तिसृष्वपि मातृकासु उपलभ्यमानाः त्रुटितांशा अस्माभिर्वाराणसेयसंस्कृतविश्वविद्यालये सरस्वतीभवने निहितायाः भोटभाषय़ानूदितायास्तत्त्वसङ्ग्रह-पञ्जिकामातृकातः संस्कृत्य पूरिताः, पूरयिष्यामश्च ।
६. अद्यत्वे प्रकाशितेषु अपरदार्शनिकानां ग्रन्थेषु तत्त्वसंग्रहोद्धरणानां कृते गायकवाड़संस्करणस्य पृष्ठाङ्का दत्ता विद्वद्भिः । अस्मत्संस्करणेन तेषां साम्यनिरूपणाय अनु- सन्धित्सूनां सौकर्याय चास्मिन् संस्करणे सर्वत्र तत्संस्करणस्य पृष्ठ – प्रारम्भाङ्कः कोष्ठके मुद्रापितः । ग्रन्थस्थास्य अवशिष्टांशः - एवं ग्रन्थमिमं प्रमाणान्तरभावपरीक्षापर्यन्तं संस्कृत्य, परिष्कृत्य च विदुषां समक्षमुपस्थापयामः । त्वरमाणैरप्यस्माभिर्हृदयेनैवैतत् कार्यं कृतमिति विद्वांसः प्रमाणम्। अन्ते चास्य महतो ग्रन्थस्यावशिष्टभागे ग्रन्थसहायिकाः सूच्योऽपि यथा - कारिकार्धसूची, ग्रन्थसूची, ग्रन्थकारसूची च निवेशिताः । अन्ते च
बद्ध्वा पद्मासनं यो नयनयुगमिदं न्यस्य नासाग्रदेशे,
धृत्वा मूर्ती च शान्तौ समरसमिलितौ चन्द्रसूर्याख्यवातौ । पश्यन्नन्तर्विशुद्धं किमपि च परमं ज्योतिराकारहीनम्, सोऽयं सर्वज्ञदेवः प्रभवतु भवतां भूयसे मङ्गलाय ॥
सम्पादकः
धर्मचक्रप्रवर्तनम्, २५४० बौद्धभारतीभवनम्, वाराणसी
•