________________
१४
तत्त्वसंग्रहे धातवश्च। विषयगतविभागोऽपि द्विविधः-संस्कृतासंस्कृतभेदेन। तत्र संस्कृता धर्माः कारणजनिताः, अतएव तेऽस्थायिनोऽनित्याः, गतिमन्तः, सास्रवाश्च । असंस्कृतास्तु धर्मा न कारणजनिता इति ते शाश्वताः, नित्याः, निश्चलाः, अनास्रवाश्च। वैभाषिकाः 'सर्वं वस्तु क्षणचतुष्टयमात्रस्थायि' इति मन्यन्ते । तेषु प्रथमः उत्पत्तिक्षणः, द्वितीयोऽस्तित्वक्षणः, तृतीयो विलयनक्षणः, चतुर्थोऽन्तिमश्च विनाशक्षणः । अयमेव बौद्धानां क्षणिकवादः।
वैभाषिकाणां नये पृथिव्यप्तेजोवायुरूपाणि चत्वार्येव तत्त्वानि, न त्वाकाशः । परमाणूनां परस्परं संयोगेन वस्तु स्वरूपमादधाति, सर्वाण्यपि वस्तून्यन्ते परमाणुषु लीयन्ते-इति तेषां समयः। ते हि व्यणुकस्य त्र्यणुकस्य च सत्तां नाङ्गीकुर्वन्ति । तेषां मते परमाणुष्वपि रूपम्, रसः गन्धः, स्पर्शो वाऽस्ति, परमतीन्द्रियत्वात् तस्य सत्ता न प्रतीयते। सति च परमाणूनां सङ्घाते एषां सत्तापि प्रत्येतुं शक्यते।
वैभाषिका ज्ञानग्राहकं विज्ञानम् (मनः, चित्तं वा) मन्यन्ते। एषामिदं चित्तं नैयायिकानामात्मनसोः सम्मिश्रितं रूपमिव । 'विषयैः सह सन्निकृष्य इन्द्रियैर्यज्ज्ञानं प्राप्यते तच्चित्ताय समर्प्य तानि स्वयमुपरतानि भवन्ति'- इति वैभाषिकाणां नयः । इमानीन्द्रियाणि च भौतिकतत्त्वसम्भूतानीति तेषां मतसंक्षेपः।
वस्तुतस्तु वैभाषिकाणामयं सर्वास्तित्ववाद: केवलम् 'सर्वं चित्तमात्रम्' इति मन्यमानानां विज्ञानवादिनां प्रतिद्वन्द्वी। न हि 'सर्वमस्ति' इति प्रतिज्ञामात्रेण भवेदैक्यम्। अत्रत्योऽयं सर्वशब्दः कतिपयबाह्यार्थानां क्रोडीकरणेनैव चरितार्थः, न विवक्षितमतिलङ्घते। बाह्योऽप्यर्थः परैरिव न चिरानुवृत्तः, न वाऽन्यसलक्षणः, न वा नित्यैकहेतुकः किन्तु क्षणिकः, स्वलक्षणः, स्वपूर्वपूर्व-क्षणलक्षणहेतूपनिबन्धकश्चेति। .
अत्र बौद्धनये प्रत्यक्षमनुमानं चेति द्वे एव प्रमाणे। सौत्रान्तिकवादः-'सूत्रान्तमेव प्रमाणं येषां ते' इति सौत्रान्तिकशब्दव्युत्पादः। इमेऽपि सौत्रान्तिकाः सर्वास्तिवादिन एव । इमे बाह्यजगतः सत्तामनुमानेन प्रतिष्ठापयन्ति, न तु प्रत्यक्षेण। ते हि मन्यन्ते-यदा सर्वं क्षणिकम्, तदा तत्स्वरूपं प्रत्यक्षं कथं भवितुं शक्नोति? यस्मिन् क्षणे यत्किमपीन्द्रियं केनापि वस्तुना सह सन्निकर्षमाप्रोति, तस्मिन्नेव क्षणे तद्वस्तु परिवर्तते, तत्प्रतिबिम्बमात्रं च चित्ते आधीयते, एतत्प्रतिबिम्बमाश्रित्यैव तद्वस्तु अनुमानेन ज्ञायते । एषां मते ज्ञानं स्वसंवेदकम्। यथा हि दीपः स्वयमेव स्वं ग्राहयति तथैव ज्ञानमपि स्वयमेव स्वं वेदयति। ज्ञानस्येयं संवेदनप्रक्रिया विज्ञानवादिनामप्यभिमता। वैभाषिका इव सौत्रान्तिका अपि आत्मन ईश्वरस्य वा सत्तां न स्वीकुर्वन्ति । सृष्टेरयं क्रमोऽनादिरनन्तश्च, नास्याः कोपि निर्माता। अस्या ईश्वरनिर्मातृत्व बहुभिः प्रबलैर्युक्तिप्रमाणैः खण्डितम्। सौत्रान्तिकानां नये दुःखमात्रमिदं जगत् । साधारणैर्जनैरपि यत्किञ्चित् सामान्येन सुखमनुभूयते, तदपि वस्तुतो दु:खमेव।
सर्वास्तिवादाभिमानिनाविमौ द्वावपि नयौ स्थविरनिकाया(हीनयाना)न्त:पातिनावेवेति विदुषां सम्मतिः । आचार्यनरेन्द्रदेवस्तु-"यद्यपि सौत्रान्तिकानां गणनं हीनयान एव क्रियते, तथापि तेषां केचित् सिद्धान्ता महायान-(योगाचार-माध्यमिक-) मतानुयायिभिः सह सङ्गच्छन्ते । अयं सौत्रान्तिक वादो बौद्धसिद्धान्तेषु संक्रमणावस्थाप्रदर्शनपरो दर्शनविशेषः" इति मन्यते स्म (बौ० ध० द० पृ० १२८)। .