________________
आमुखम्
१३ भिक्षुसङ्घः-भगवन्तो बुद्धास्तदानीन्तनब्राह्मणा इव ईश्वरसत्तां वेदप्रामाण्यं वा न स्वीचक्रुः, नापि श्रमणा इव नास्तिकवादं प्रख्यापयामासुः, अपितु इमावुभावपि मार्गों विहाय मध्यममार्गमुपदिदिशुः । ईश्वरसत्तामस्वीकृत्यापि ते पुनर्जन्मपरलोकादिविषये प्रतिपन्नाः कर्मकर्मफलसम्बन्धं स्वीचक्रुः । इयमेव बुद्धोपदेशानामुपलभा यत्तदानीन्तने आर्यावर्ते नास्तिकवादोऽस्तमितः, आर्यसंस्काराश्च पुनः प्रतिष्ठामापुः । एवं बौद्धसिद्धान्तानां चतुरस्रगत्या पराक्रमेण ते पूर्वोक्ता नास्तिकास्तापसाश्च लोके प्रभावहीना नि:श्रीकाश्चाभूवन्, बुद्धपथपरिव्राजां भिक्षूणां सङ्घश्च सर्वत्र गृहस्थानां नागरिकाणाम्, राज्ञाम्, सम्राजां च प्रश्रयमुपलभ्य सर्वतो भावेनोन्नतिशिखरमारूढः । सम्राजि अशोके तु महीं शासति भिक्षुसङ्घोऽयमार्यावर्ते प्रहररविवद् देदीप्यमान आसीत्। सङ्के निकायभेदः - भगवतो बुद्धस्य महापरिनिर्वाणानन्तरमयं भिक्षुसङ्घो गच्छता कालेनमहासाङ्घिकनिकायः, स्थविरनिकायश्चेति निकायद्वये विभक्तोऽभूत् । तत्र स्थविरनिकायो विनयानुरोधी महासाचिकनिकायस्योदारचिन्तकस्य प्रतिद्वन्द्वी। इमौ द्वावपि निकायावग्रे१. आर्यमहासाचिकनिकायः, २. आर्यस्थविरनिकाय:, ३. आर्यमूलसर्वास्तिवादनिकाय:, ४. आर्यमहासम्मितीयनिकायश्चेति चतुर्धा विभक्तः । बहुतिथेच काले गते चतुर्णामेषामप्यष्टादश भेदा जाताः। तथा हि-आर्यमहासाविकनिकायस्य सप्त, आर्यस्थविरनिकायस्य त्रयः, आर्यमूलसर्वास्तिवादनिकायस्य चत्वारः, आर्यमहासम्मितीयनिकायस्य च चत्वार इति। एवमयं भिक्षुसङ्घो भगवतो महापरिनिर्वाणानन्तरं त्रिशतवर्षेष्वेव विचारभेदेनाष्टादशधा विभक्तोऽभूत्। तत्रार्यमूलसर्वास्तिवादस्यापीमे चत्वारो भेदा जाता:- १. मूलसर्वास्तिवादनिकायः, २.धर्मगुप्तनिकाय:, ३. महीशासकनिकायः, ४. काश्यपीयनिकायश्च। सर्वास्तिवादः-आर्यावर्ते एष्वष्टादशसु निकायेषु कदाचित् मूलसर्वास्तिवादस्य सर्वतोऽधिकतमः प्रचारः प्रभावश्चासीत्। 'सर्वं बाह्यमाध्यात्मिकं च वस्तुजातमस्ति' इति मन्यन्ते स्म सर्वास्तिवांदिनः। सोऽयं निकाय: विचारवैमत्येन स्थविरनिकायतो बहो: कालात् पूर्वमेव पार्थक्यमभजत्। प्रसिद्धचीनयात्रिण इत्सिङ्गमहोदयस्य यात्राविवरणेनेदं स्पष्टं प्रतीयते यत्तस्य यात्राकालेऽस्मिन्नार्यावर्ते भिक्षुसङ्के चत्वारः प्रमुखनिकाया आसन्, येष्वेक आर्यमूलसर्वास्तिवादनिकायोऽप्यासीत्। धर्मगुप्तमहीशासक-काश्यपीयनिकाया अपि सामान्येन एतनिकायान्तर्भूता एवासन्, न किमपि प्रमुखं वैशिष्ट्यमित एषु निकायेषु।
गन्धारेषु कश्मीरेषु चायं निकायः पूर्वं वैभाषिकनिकायनाम्ना ख्यातिमुन्नतिं चालभत। 'विभाषया दीव्यन्ति चरन्ति वेति वैभाषिकाः' इति व्युत्पत्तिः । ज्ञाप्रस्थानग्रन्थस्य व्याख्या नाम्ना 'विभाषा' आसीत्, वसुमित्रोऽस्या व्याख्याया रचयिता। ज्ञानप्रस्थानस्य च रचयिता सर्वास्तिवादी कात्यायनीपुत्रः-इत्यैतिह्यविदः। अस्या विभाषाया रचनाकालो महाराजकनिष्कतः परवर्ती। अस्यां व्याख्यायां सर्वास्तिवादनिकायस्य प्रमुखाणां सर्वेषामाचार्याणां मतानि यथायथमुपनिबद्धानि-विनेया यथेच्छं किमपि मतं गृह्णीयुरिति। महाविभाषाशास्त्रम्' इति चास्याः पूर्ण नाम। अस्याश्च विपुलकायत्वेन जिज्ञासूनां दुरधिगम्तयाऽऽचार्येण वसुबन्धुना 'अभिधर्मकोष' नाम्ना एषा संक्षेपं नीता। वैभाषिकनयः-यत्किञ्चिदिदं जगति सत् तत्सर्वं वैभाषिकनये विषयि-विषयभेदेन द्विधा विभक्तुं शक्यते। विषयिगतविभागे त्रयो भेदाः-पञ्च स्कन्धाः, द्वादशायतनानि. अष्टादश