SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आमुखम्. रत्नत्रयं नमस्कृत्य मैत्रेयादीन् मुनींस्तथा।। बौद्धदर्शनमालम्ब्य वक्ष्ये किञ्चिद् यथामति॥ श्रमणब्राह्मणवादौ-बुद्धावतारकालतः पूर्वमस्मिन्नार्यावर्तेऽनेके वादाः प्रसृता आसन्। तैश्चोद्वेलितमासीद् विचारजगत् । तदा 'अस्ति परो लोकः', 'नास्ति परो लोकः'; 'प्रेत्यभावादनन्तरं जीवस्यास्तित्वमस्ति', 'प्रेत्यभावादनन्तरं जीवस्यास्तित्वं नास्ति'; 'अस्ति कर्म, अस्ति कर्मणां फलम्, अस्ति च कर्मफलविपाकः', 'नास्ति कर्म, नास्ति कर्मणां फलम्, नास्ति च कर्मफलविपाक:'- इत्येवमादिभिर्बहुभिर्विचारजातैः कुतुकाक्रान्तानि जिज्ञासाभरितानि चासन् लोकानां मनांसि । ब्राह्मणेषु श्रमणेषु चोभयेष्वपि एतादृशी दर्शनचर्चा काले काले विचारगोष्ठीषु शास्त्रार्थपरिषत्सु राजसभासु च प्रावर्तत। तत्र श्रमणास्तावदवैदिका आसन्, ये वेदप्रमाण्यं कथमपि न स्वीचक्रुः । यज्ञयागादयस्तेषां नये क्षुद्रफला निष्फला वा, प्रत्युत हिंसाजनकत्वादनुपादेया एवासन्। एते श्रमणा आस्तिका नास्तिकाश्चोभयविधा अप्यासन्, परं त्रिपिटके तु नास्तिका एव उल्लिखिताः । सर्वेऽपीमे श्रमणाः प्रायस्तपःप्रधानाः, जगतो विरज्यन्तः, ब्रह्मचर्यं पालयन्तोऽहिंसामाचरन्तः, तत्त्वमन्वेषयन्तः कस्याप्याचार्यस्य गणे सङ्के वा दीक्षिता भूत्वा संन्यस्तेन जीवनं यापयन्ति स्म। ब्राह्मणाश्च गार्हस्थ्यमनुप्रविष्टाः श्रुतिसम्मतां विविधयज्ञदानादिक्रियामनुतिष्ठन्तो वैदिकी हिसां हिंसां न स्वीचक्रुः । अत एव तदानीन्तनविचारजगति इमे श्रमणा ब्राह्मणाश्च काकोलूकमिवासन्। संक्षेपतो ब्राह्मणाः कर्मकाण्डप्रधानाः, आस्तिकाः, 'सुकृतदुष्कृतकर्मणां फलं फलविपाकश्चास्ति' इति मन्यमानाः, सरलाः, निःस्पृहाः, विद्याव्यसनिनश्चासन्। अत एव ते लोके प्रथितयशस्का बभूवुः। उपनिषद्वादः-परं शनैश्शनैस्तात्कालिको लोकः श्रमणानामुपदेशेन, स्वयं च गम्भीरचिन्तनेन कर्मकाण्डविरोधी, अथ च पशुवधादुद्विग्न इवाभूत्। प्रायस्तदा यज्ञादिक्रियाकलापो हीनतां प्राप्तः । गृहे गृहे च तत्त्वविद्याचर्चा प्रावर्तत। 'तत्त्वज्ञानं सर्वातिशायि' इति तात्कालिकं लोकहृदयमभूत्। एतत्कालिका: स्वात्मारामा मुनयोऽरण्ये आश्रमेषु तत्त्वचिन्तनरता न्यवसन्। गृहस्था जिज्ञासवोऽपि तत्रैवारण्ये तेषां सकाशात्तत्त्वविद्याधिगमाय गच्छन्ति स्म। ___ एषु श्रमणेषु ब्राह्मणेषु तापसवृत्तयोऽपि तत्त्वचिन्तका अभूवन्, ये शरीरक्लेशमपि तत्त्वाधिगमोपायं मन्यन्ते स्म। इमे तावद् वृक्षमूलनिकेतनाः, अरण्यवासाः, श्मशानवासाः, पांसुकूलधारिणो वा भूत्वा स्वस्वमार्गेऽभिरता आसन्। भगवान् बुद्धः-अस्मिन्नेव काले, यदा हीयं दार्शनिकी चिन्ता आर्यावर्तस्य गृहे गृहे प्राचुर्येण प्रावर्तत यद् गृहस्था अपि आगारं त्यक्त्वा अनागारिका भूत्वा भिक्षुवृत्तिं स्वीकृत्य समुत्सुकास्तत्त्वज्ञानाय प्रयतन्ते स्म, भगवान् बुद्धः शाक्यवंशे क्षत्रियकुले गौतमगोत्रे नाम्ना सिद्धार्थः कपिलवस्तुनगरे महाराजशुद्धोदनस्य गृहेऽवातरत् । अयं मध्यमे वयस्येव श्रद्धया वीर्येण स्मृत्या समाधिना प्रज्ञोद्रेकेण च सम्यक्सम्बोधिमापत्, चित्तनिर्वाणमध्यंगमत्, तृष्णाक्षयं 'चाकार्षीत्। सम्यक्सम्बुद्धेन च तेन बहुजनहिताय बहुजनसुखाय मध्यममार्गावलम्बिनी "दुःखम्, दुःखसमुदयः, दुःखनिरोधः, दु:खनिरोधगामिनी च प्रतिपदा'-इत्येवं चतुरार्यसत्यरूपा तत्त्वाधिगमोपायस्य चतुःसूत्री उपदिष्टा । तल्लब्धये चार्याष्टाङ्गिको मार्ग उपदिष्टः ।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy