________________
प्रास्ताविकं किञ्चित्
शास्त्रिभिः श्रीद्वारिकादासस्वामिभिः तत्तत्पुस्तकभाण्डागारेषु पुरातनाद्यतनप्राप्तमातृकाधारेण परिष्कृत्य, प्रसङ्गबोधकनि नवशीर्षकाणि यथायथं समारोप्य, यत्र तत्र त्रुटितांशांश्च भोटभाषयानूदिततत्त्वसंग्रहपञ्जिकासाहाय्येन देववाण्या पुनः संस्कृत्य योऽयं सव्याख्यस्तत्त्वसंग्रहः पूर्वमुद्रितसंस्करणापेक्षया शोभनतरः प्रकाशितः, तेन नूनमिमेऽभिनन्दनीयतां गच्छन्ति । यदा तैर्बोद्धशास्त्रमस्मिन् विश्वविद्यालयेऽधिगतम्, तदानीं तत्त्वसंग्रहमनवाप्य स्वयं यत् कष्टमनुभूतम्, परेषां च यद् दृष्टम्, तत्फलेनैवानुपलब्धविशिष्टबौद्धग्रन्थानामुपलब्धये 'बौद्ध भारती'प्रतिष्ठानमाध्यमेन तेषामयं प्रकाशनसङ्कल्पः । तत्रायं सागरायमाणः सव्याख्यस्तत्त्वसंग्रहग्रन्थः प्रथमपुष्पत्वेन प्रकाशितः ।
११
I
वस्तुत एते स्वामिनः स्वामिन एव, न चाविरक्ता धनवन्तः स्वामिनः । अत एव तत्प्रकाशनव्यवस्थया नैते धनपतित्वं न वा क्वचिदाधिपत्यं कामयन्ते । तेषामयं प्रयासः. बौद्धसिद्धान्तानां पुनः प्रचाराय प्रसाराय च। एतेनैव कारणेनैतद्वेगविवशैरेतैर्मासद्वयाभ्यन्तरेऽस्य प्रथमः खण्डः प्राकाश्यं नीतः, मन्ये चैतत्खण्डस्य विद्वद्भिर्यावदानुपूर्वीवाचनं क्रियेत तावदेव द्वितीयः खण्डः प्रकाशितो भवेत् । कार्ये विलम्बमसहमानैरेवैतैरभिमतोऽपि क्वचित् क्वचित् स्थलादिसङ्केतो न कृतः । आशासे ग्रन्थावसाने स्वामिभिरेतादृशमभिमतमपि सम्यक् पूरयितव्यं स्यात् ।
एतद्ग्रन्थप्रकाशनपुण्यपुञ्जानुभावेन स्वामिद्वारिकादासशास्त्रिणां सङ्कल्पः सफलो
भवेदिति कामयते
३. २. १९६८ वा० सं० विश्वविद्यालय:
वाराणसी.
जगन्नाथ उपाध्यायः (बौद्धदर्शनविभागाध्यक्षः )