________________
१०
तत्त्वसंग्रह
नित्यत्वानित्यत्व-एकत्वानेकत्वविषये वसुबन्ध्वादिभ्यः पृथग्वादोऽत्र समुपलभ्यते । समासत इदमेवाचार्यशान्तरक्षितस्य दर्शनहृदयम् । इदञ्च न तत्त्वसंग्रहे पञ्जिकायां वा विस्तरशो विविक्तं दृश्यते । अयं हि ग्रन्थः परपक्षपरीक्षया बौद्धतदितरयोरनभिमतसिद्धान्तानां निराकरणप्रधानः । स्वाभिमतो योगाचारसहः स्वातन्त्रिकमाध्यमिकवादस्तु आचार्यैः शान्तरक्षितैः स्वकृतमध्यमकालङ्कारे विवृतः।
अयञ्च ग्रथनप्रकारो मध्यमकमतप्रवर्तकानाम् आचार्य नागार्जुनपादानां शासनानुकारमेव भजते। यथा तैः मध्यमककारिकासुस्वसिद्धान्तमन्तर्भाव्य तदविरोधेन तत्र परपक्षः परीक्ष्यते, अन्यत्र च रत्नावल्यादिस्वग्रन्थेषु प्राधान्येन स्वमतं स्फुटीक्रियते, तथैव शान्त रक्षितेनाप्ययं क्रमोऽङ्गीकृतः।
तत्त्वसंग्रहस्य विषयविन्यासविधौ आचार्य नागार्जुनकृताया मध्यमककारिकाया; धर्मकीर्तिकृतस्य प्रमाणवार्तिकस्य च भूयान् रचनाप्रभाव आलक्ष्यते। यद्यपि शान्तरक्षितेन तत्त्वसंग्रहे त एव कतिपये प्रमेयाः परीक्षितुमुपस्थापिताः, ये तदानी बौद्धतदितरयोर्भृशं विमतां आसन्। प्रमाणचर्चाऽपि तेन बहुशो न कृता, यथा प्रमाणवार्त्तिके विस्तरेणोपलभ्यते; तथापि समानानां विवेच्यविषयाणां परीक्षाप्रसङ्गे स एव क्रमो गृहीतो यो हि प्रमाणवार्त्तिककारेण स्वीकृतः । अस्ति द्वयोरप्यालयविज्ञानानङ्गीकारः समान:, तथापि विज्ञप्तितत्त्वाङ्गीकारानङ्गीकाराभ्यां परतन्त्रसत्ताविषये प्रवर्तमानं महदन्तरं सत्यपि द्वयोर्विज्ञानवादित्वे प्रस्थानभेदं विदधाति । इमं प्रस्थानभेदमवज्ञायैव द्वयोः रचनाप्रकार-विषयविन्यासादिसाम्यमाकलयितुं युक्तम्। एवमेव यथा नागार्जुनपादैः प्रतीत्यसमुत्पादः मध्यमप्रतिपद्रूपोऽष्टविधविशेषणयुतः सकलमध्यमककारिकाभिः परपक्षनिरसेन प्रकटीकृतः, तथैव शान्तरक्षितेनापि तादृश्येव शून्यतागर्भा मध्यमा प्रतिपद् विज्ञानवादसम्मतोपपत्त्यादिभिः परपक्षपरीक्षया चाङ्गीकृता।
इत्थं पूर्वोक्तसांख्य-न्याय-वैशेषिक-मीमांसा-भामह-भर्तृहरिप्रभृतीनां प्रस्थानानां प्रास्थानिकानां च तैर्थिकानां विशिष्टग्रन्थान् प्रत्याख्येयतयां, माध्यमिक-धर्मकीर्त्यादीनां स्वयूथ्यानां विशिष्टग्रन्थान् समर्थनीयतया आश्रित्य तत्त्वसंग्रहप्रबन्धोऽनुसरणीयतां भजते।
___ आचार्यशान्तरक्षितस्याशीत्यधिकवत्सरावधिबृंहितं जीवनमाहात्म्यं न तावत् केवलमभिमतयोगाचारस्वातन्त्रिकमाध्यमिकप्रस्थानविशेषस्य प्रवर्तकत्वेन, तत्त्वसंग्रहमध्यमकालङ्कारादिविशिष्टग्रन्थानां निर्मातृत्वेनैव वा सम्यग् आकलयितुं शक्यते; यावद् भारतदेशाद् बहिर्भोटदेशे गतानां तेषां तत्र तत्र उपदिशतां नानाविधग्रन्थानुवादकौशलनानासम्प्रदायप्रवर्तनादि वृत्तम्, अथ च तच्छिष्याणाम् आचार्यकमलशीलपादानां स्वाचार्यप्रवर्तितविद्यासम्प्रदायादिविस्तरणकृत्यं सम्यग् अधिगतं न भवेत्। इत्थं सशिष्यस्य शान्त रक्षितस्य ग्रन्थानामनुशीलनम्, तेषां भारतभोटदेशयोर्विहितानां विविधानुष्ठानानां चाकलनम्, ख्रिष्टीयाष्टमनवमशताब्द्योः प्रवर्तमान-दार्शनिकविचाराणां सामाजिकत्वेन धार्मिकत्वेन च प्रसारकर्म तदानीम्प्रवर्धमानभारतीयसंस्कृतेरितिवृत्तं पुरस्करोति।
एवंविधग्रन्थानामनुपलब्धिः स्वाध्यायतत्पराणां विदुषां खेदाय भवति । पुस्तकालयेष्वप्यनेकवर्षेभ्यो विरलप्राप्तस्यास्य तत्त्वसंग्रहग्रन्थस्य पुनः प्रकाशोऽवश्यं मोदाय भवेत्।