________________
प्रास्ताविकं किञ्चित्
(प्रथमसंस्करणतः) अथावं प्रस्तूयतेऽस्मन्मित्रेण स्वामिना श्रीद्वारिकादासशास्त्रिणा समुपलब्धमातृकाभिर्यथाविधि संस्क्रियमाण आचार्यश्रीशान्तरक्षितकृतस्तत्त्वसंग्रहः तत्पुत्रेण शिष्येण वा आचार्यकमलशीलेन कृतेन तद्व्याख्याग्रन्थेन सह विपुलकायः।।
__ ग्रन्थोऽयं यद्यपि बौद्धानाम्, तत्रापि माध्यमिकप्रस्थानविशेषस्यैव; तथाप्ययं ख्रिष्टीयाष्टमी नवमीं च शताब्दी यावदुपबृंहितानां वैदिकावैदिकभारतीयदर्शनानाम्, स्वस्वशाखास्वप्यनतिपरिचितानाम्, अपरिचितानां वा विशिष्टवादानां तदाचार्यग्रन्थानां परीक्षामिषेणात्र पूर्वपक्षेषु यथातथसमुद्धरणेन तदवधिकभारतीयदर्शनानाम् आकारग्रन्थमाहात्म्यं लभते। स्वस्वप्रमाणप्रमेय-विद्याबृंहणव्यग्राभ्यां बौद्धतदितराचार्यपरम्पराभ्यां परस्परं क्षेपप्रतिक्षेपविधया दर्शनशास्त्राणां विविधप्रस्थानेषु यत् समुद्भावनम्, विकासो वा समजनि, तस्येतिवृत्तमेवाद्यापि विश्वेऽस्मिन् भारतीयदर्शनानां माहात्म्यस्योत्कर्ष ख्यापयति । तस्या वादप्रतिवादपरम्परायाः प्रायो विसर्जनकाले गुरुशिष्याभ्यां प्रणीतोऽयं सव्याख्यो ग्रन्थस्तां सकलामपि सहस्रवत्सरावधिजातां पारम्परिकी विद्याकथिकतां स्मारयति, यथासम्भवं चानुभावयति । तत्तद्विद्यासम्प्रदायेषु कदाचिदतीव विख्यातानाम्, अनन्तरं नामशेषं गतानाम् अविद्धकर्ण-शङ्करस्वामिभाविविक्त-योगसेन-लक्षणकार-सुमति-पात्रस्वामि-पुरन्दरप्रभृतिविदुषां नामग्राहम् अनामग्राहं वा प्रामाणिको वादपरिचयोऽस्मिन् ग्रन्थे लभ्यते। जगन्मिथ्यात्ववाद-शब्दब्रह्मवाद-ईश्वरसधर्मतावाद-नित्यज्ञानविवर्त्तवाद-वात्सीपुत्रीयात्मवाद-निराकार-साकारज्ञानवादप्रभृतयोऽनेके वादाः स्वस्वप्रस्थानेषु सुप्रसिद्धा अप्यत्रापूर्वोपपत्त्यादिभिरभिनवत्वं भजन्ते। चार्वाकसांख्य-मीमांसादिप्रसिद्धप्रस्थानानां ग्रन्थेष्वप्यपरिचिताः केचिद्वादा अत्र सुविवृत्ता दरीदृश्यन्ते। प्रशस्तमतिभाष्य-न्यायवार्तिक-शोकवार्तिक-वाक्यपदीय-सांख्यकारिकादिमूलग्रन्थान् उपजीव्य तत्रत्यवादा पुङ्खानुपुङ्खरूपेण यथा अत्र परीक्षिताः, तथान्यत्राचीनदर्शनग्रन्थेष्वपि नोपलभ्यन्ते। वस्तुतोऽस्य ग्रन्थराजस्य महिना प्राचीनभारतीयदर्शनाम्, तत्रापि विशेषतो बौद्धदर्शनानां प्रज्ञासाम्राज्यं सप्रकाशं भवति।
पञ्जिकासहितोऽयं तत्त्वसंग्रहाख्यो ग्रन्थोऽस्ति बौद्धेषु माध्यमिकानाम्, तत्रापि च योगाचारव्यवहारसम्मतस्य निकायविशेषस्य। विदितचरमेव प्रासङ्गिकस्वातन्त्रिकाभ्यां माध्यमिकानां भेदः । तत्र स्वातन्त्रिकविधया पुद्गलधर्मयोनि:स्वभावत्वख्यापनादस्य परमार्थतः शून्यवादित्वस्थितिः । व्यवहारनयेऽस्य योगाचारविज्ञप्तिमात्रवादित्वेन ब्राह्यार्थनिषेधो निःस्वभावता च पर्यवस्यति, न तु विज्ञप्तितत्त्वविनिश्चितिः। एतैः सांवृतस्वतन्त्रोपपत्तिभिः प्रतिबिम्बवदात्मद्वयमङ्गीकृत्य व्याप्तिविनिश्चयद्वारा पुद्गलधर्मात्मनोः स्कन्धेभ्य एकत्वानेकत्वनिषेधेन निःस्वभावता प्रकटीक्रियते। शान्तरक्षितमकलशीलसम्मतोऽयं व्यावहारिको विज्ञानवाद आचार्यवसुबन्धु-दिङ्नाग-धर्मकीत्यभिमतात् पारमार्थिकविज्ञानवादाद् बहुधा भिन्नः, आर्यमैत्रेय-असङ्गसम्मताच्च अनेकधा समानः प्रतीयते। अत एव विज्ञप्तितत्त्वस्य