SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ तत्त्वसंग्रहे वस्तुतो लुप्ता भारतीसम्पद् पुनरुज्जीविता । अतोऽयं मनीषी प्राच्यविद्याप्रतिष्ठानानाम्, दर्शनेषु सञ्जातरुचीनां विदुषां चातीव धन्यवादार्हः । गायकवाड़ग्रन्थमालासंस्करणमेकां त्रुटितामत एवापूर्णां मातृकामुपजीव्य सम्पन्नमासीत्। नवनालन्दामहाविहारस्य पुस्तकालये स्माभिरेका पुराणमातृकायाचित्रप्रतिकृतिरुपलब्धा, यत्र सर्वास्त्रुटयः सम्पूरिता इव दृश्यन्ते। अहमस्मन्मित्राणि स्वामिद्वारिकादासमहोदयाननुरुणध्मि यत्ते इमां मातृकामप्यवश्यमेव परिशीलयेयुः। इदं सन्तोषावहमेव यदद्यत्वेऽप्यस्मिन्नधुनातने धर्मनिरपेक्षे संस्काराच्युते च भारते संस्कृताध्ययनाध्यापनं मनीषिभ्यो रोचत एव। भारतस्य पुनरुत्थानं संस्कृतभाषयैव भविष्यतीति मे बलिष्ठो विश्वासः । यद्यप्यधुना संस्कृतस्य शतानवनवतिर्ग्रन्था अस्मद्दौर्भाग्येण लुप्ता एव, तथापि येऽवशिष्टास्तेऽप्यस्मान् प्राचीनभारतस्य दार्शनिकतत्त्वज्ञानं प्रति सततं जागरूकान् विदधति। .. इदञ्च मदीयं कर्त्तव्यं यद्यूनां संस्कृतविदुषां लेखनकार्याणि विद्वज्जनपर्षदि समुपस्थायेयम्। एषु युवसु विद्वत्स्वेकः स्वामी द्वारिकादासशास्त्री, गर्वितोऽहमस्योपलब्धौ-इति कथयन्नहं न केवलं ममैव, अपि तु विद्वजनपर्षदोऽपि हा प्रकटयामीति मे दृढो विश्वासः । रतमा पो० आ० दक्षिणग्रामः, ।. वीरभूममण्डलम्, (वङ्गप्रदेशः) सातकारी मुकर्जी ११. ७. ६८
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy