________________
श्रीनवनालन्दामहाविहारस्याध्यक्षचराणां
डॉ. सातकारिमुकर्जिमहाभागानाम् - आशीर्वचांसि
स्वामी द्वारिकादाशास्त्री कमलशील-पञ्जिकासनाथस्य श्रीशान्तरक्षितविरचितस्य तत्त्वसंग्रहस्य सम्पादनकर्मण्यद्यत्वे प्रवृत्तोऽस्ति । पूर्वमयं ग्रन्थो वटोदरस्थगायकवाड़ग्रन्थमालायामपि सम्पादितः प्रकाशितश्चाभूत् । तदैतद्ग्रन्थे प्रकाशमायाते, विद्वजनमनांसि कुतुकाक्रान्तानि मोदमानानि चाभूवन्। आचार्यधर्मकीर्तेः प्रमाणवार्त्तिकं तदात्वेऽनुपलम्भान्निभृतमिवासीत्, अतस्तदानीं केवलं तत्त्वसंग्रहेणैव सौगतवादाः प्रामाणिकत्वेन ज्ञातुं पार्यन्ते स्म। तत्त्वसंग्रहतः सौगतेषु सौत्रान्तिक-योगाचारनिकाययोस्तत्त्वशास्त्रस्य, तर्कशास्त्रस्य, ज्ञानमीमांसायाश्चानेके प्रश्ना-याथातथ्येन दार्शनिकैरवबोद्धं शक्यन्ते।
ग्रन्थस्यास्य स्वकीयं वैशिष्ट्यमिदमेव यदत्र ग्रन्थकारोऽन्येषां दार्शनिकानां मतान्यपि निर्दिशति। कमलशीलश्च नामग्राहं तद्वचनान्युदाहरति। ग्रन्थकारोऽयं तदानीन्तनशतकत्रये जातां धर्मकीर्तित उड्योतकरपर्यन्तां दर्शनपरिचर्चामल्लिखति। अस्मिन् काले (ग्रन्थकर्तुः समये) दार्शनिकाः प्रश्नाः सूक्ष्मेक्षिकया विवेच्यमाना आसन्। आचार्यदिङ्नागधर्मकीर्तिप्रबन्धैरास्तिकदर्शनानां सर्वमान्याः सिद्धान्ता न केवलं भृशं कम्पिताः, अपि तु तेषामस्तित्वमपि सौगतप्रबन्धानां पुरतः सन्दिग्धमिव जातम्। 'अहमेव तत्त्वदर्शी' इति दार्शनिकानामात्मतोषस्तदात्वेऽसम्भव एवाभूत्। . . .
ग्रन्थेनानेन सहोड्योतकरीयन्यायवार्त्तिकस्य, कौमारिलप्रबन्धानां श्लोकवार्त्तिकादीनाञ्चाध्ययने पाठकैरनायासेनैव तेषु शतकेषु जाता सांस्कृतिकप्रगतिः, दार्शनिकानां तत्त्वगवेषणा. वा अधिगन्तुं शक्यते। तदा नैयायिकानां वस्तुवाद आत्मवादश्च बौद्धानां तर्ककुलिशप्रहारैः निःसत्त्वाविव जातौ। बौद्धानां च वेदप्रामाण्यवादखण्डनं मीमांसाशास्त्रनिष्णातेन कुमारिलविदुषा महताऽऽटोपेन निरस्तम्, मीमांसासम्प्रदायश्च रक्षितः । एवमास्तिकदार्शनिकानां युक्तिजालेन बौद्धानां सम्मानं दार्शनिकजगति धूलिसादिव जातम् । परं बौद्धा अपि न. तूष्णीमासुः, तैरप्यास्तिकदार्शनिकाः भृशमप्रत्याख्येयाभिर्वाचोयुक्तिभिः प्रतिप्रहताः । सोऽयं तत्त्वसंग्रहोऽस्यामेवाहमहमिकायां समयपरम्परायां निबद्धः । एवमस्या दर्शनप्रतिद्वन्द्वितायाः बौद्धिकसंग्रामस्य वा सुखद एव परिणामः समभूत्। उभयत्रापि, बौद्धेषु आस्तिकेषु च, उद्भटा विद्वांस आचार्यास्तत्त्वमीमांसकाः प्रादुरभूवन्। इमे दर्शनकेशरिणो न केवलं तन्मीमांसायामेव प्रशस्याः, अपितु एषां भाषासौष्ठवमपि तथैव प्रशस्ततमम् । इत्थमेषां दर्शने, भाषायाम्, छन्दोरचनासु च यावान् गरिष्ठोऽधिकारः, सोऽस्माकं वराकाणां कृते सततमनुकरणीय एव।
तत्त्वसंग्रहस्य गायकवाड़ग्रन्थमालासंस्करणं बहुहायनेभ्यः पूर्वमेव समाप्तमभूत्। अतोऽस्य ग्रन्थस्य नवं सर्वाङ्गसौष्ठवसम्पन्नं संस्करणं नितरामावश्यकमासीत्। स्वामिना द्वारिकादासशास्त्रिणा, प्राचीनसंस्कृतग्रन्थानां विश्वसनीयेन सम्पादकेन, इमं ग्रन्थं साधु सम्पाद्य