Book Title: Tattvasangraha Part 01 Author(s): Dwarikadas Shastri Publisher: Bauddh BharatiPage 16
________________ १४ तत्त्वसंग्रहे धातवश्च। विषयगतविभागोऽपि द्विविधः-संस्कृतासंस्कृतभेदेन। तत्र संस्कृता धर्माः कारणजनिताः, अतएव तेऽस्थायिनोऽनित्याः, गतिमन्तः, सास्रवाश्च । असंस्कृतास्तु धर्मा न कारणजनिता इति ते शाश्वताः, नित्याः, निश्चलाः, अनास्रवाश्च। वैभाषिकाः 'सर्वं वस्तु क्षणचतुष्टयमात्रस्थायि' इति मन्यन्ते । तेषु प्रथमः उत्पत्तिक्षणः, द्वितीयोऽस्तित्वक्षणः, तृतीयो विलयनक्षणः, चतुर्थोऽन्तिमश्च विनाशक्षणः । अयमेव बौद्धानां क्षणिकवादः। वैभाषिकाणां नये पृथिव्यप्तेजोवायुरूपाणि चत्वार्येव तत्त्वानि, न त्वाकाशः । परमाणूनां परस्परं संयोगेन वस्तु स्वरूपमादधाति, सर्वाण्यपि वस्तून्यन्ते परमाणुषु लीयन्ते-इति तेषां समयः। ते हि व्यणुकस्य त्र्यणुकस्य च सत्तां नाङ्गीकुर्वन्ति । तेषां मते परमाणुष्वपि रूपम्, रसः गन्धः, स्पर्शो वाऽस्ति, परमतीन्द्रियत्वात् तस्य सत्ता न प्रतीयते। सति च परमाणूनां सङ्घाते एषां सत्तापि प्रत्येतुं शक्यते। वैभाषिका ज्ञानग्राहकं विज्ञानम् (मनः, चित्तं वा) मन्यन्ते। एषामिदं चित्तं नैयायिकानामात्मनसोः सम्मिश्रितं रूपमिव । 'विषयैः सह सन्निकृष्य इन्द्रियैर्यज्ज्ञानं प्राप्यते तच्चित्ताय समर्प्य तानि स्वयमुपरतानि भवन्ति'- इति वैभाषिकाणां नयः । इमानीन्द्रियाणि च भौतिकतत्त्वसम्भूतानीति तेषां मतसंक्षेपः। वस्तुतस्तु वैभाषिकाणामयं सर्वास्तित्ववाद: केवलम् 'सर्वं चित्तमात्रम्' इति मन्यमानानां विज्ञानवादिनां प्रतिद्वन्द्वी। न हि 'सर्वमस्ति' इति प्रतिज्ञामात्रेण भवेदैक्यम्। अत्रत्योऽयं सर्वशब्दः कतिपयबाह्यार्थानां क्रोडीकरणेनैव चरितार्थः, न विवक्षितमतिलङ्घते। बाह्योऽप्यर्थः परैरिव न चिरानुवृत्तः, न वाऽन्यसलक्षणः, न वा नित्यैकहेतुकः किन्तु क्षणिकः, स्वलक्षणः, स्वपूर्वपूर्व-क्षणलक्षणहेतूपनिबन्धकश्चेति। . अत्र बौद्धनये प्रत्यक्षमनुमानं चेति द्वे एव प्रमाणे। सौत्रान्तिकवादः-'सूत्रान्तमेव प्रमाणं येषां ते' इति सौत्रान्तिकशब्दव्युत्पादः। इमेऽपि सौत्रान्तिकाः सर्वास्तिवादिन एव । इमे बाह्यजगतः सत्तामनुमानेन प्रतिष्ठापयन्ति, न तु प्रत्यक्षेण। ते हि मन्यन्ते-यदा सर्वं क्षणिकम्, तदा तत्स्वरूपं प्रत्यक्षं कथं भवितुं शक्नोति? यस्मिन् क्षणे यत्किमपीन्द्रियं केनापि वस्तुना सह सन्निकर्षमाप्रोति, तस्मिन्नेव क्षणे तद्वस्तु परिवर्तते, तत्प्रतिबिम्बमात्रं च चित्ते आधीयते, एतत्प्रतिबिम्बमाश्रित्यैव तद्वस्तु अनुमानेन ज्ञायते । एषां मते ज्ञानं स्वसंवेदकम्। यथा हि दीपः स्वयमेव स्वं ग्राहयति तथैव ज्ञानमपि स्वयमेव स्वं वेदयति। ज्ञानस्येयं संवेदनप्रक्रिया विज्ञानवादिनामप्यभिमता। वैभाषिका इव सौत्रान्तिका अपि आत्मन ईश्वरस्य वा सत्तां न स्वीकुर्वन्ति । सृष्टेरयं क्रमोऽनादिरनन्तश्च, नास्याः कोपि निर्माता। अस्या ईश्वरनिर्मातृत्व बहुभिः प्रबलैर्युक्तिप्रमाणैः खण्डितम्। सौत्रान्तिकानां नये दुःखमात्रमिदं जगत् । साधारणैर्जनैरपि यत्किञ्चित् सामान्येन सुखमनुभूयते, तदपि वस्तुतो दु:खमेव। सर्वास्तिवादाभिमानिनाविमौ द्वावपि नयौ स्थविरनिकाया(हीनयाना)न्त:पातिनावेवेति विदुषां सम्मतिः । आचार्यनरेन्द्रदेवस्तु-"यद्यपि सौत्रान्तिकानां गणनं हीनयान एव क्रियते, तथापि तेषां केचित् सिद्धान्ता महायान-(योगाचार-माध्यमिक-) मतानुयायिभिः सह सङ्गच्छन्ते । अयं सौत्रान्तिक वादो बौद्धसिद्धान्तेषु संक्रमणावस्थाप्रदर्शनपरो दर्शनविशेषः" इति मन्यते स्म (बौ० ध० द० पृ० १२८)। .Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 444