Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 18
________________ १६ तत्त्वसंग्रहे सुखदुःखयोः, शुभाशुभयोः, साध्वसाध्वोर्भेदः प्रतीयते । यैः प्रयत्नैः विज्ञानस्य शुद्धं रूपं विकासमेति त एव मुक्तये कल्पन्ते । इत्थं सौगतवादानां दिङ्मात्रमिह दर्शितम् । विस्तरस्तु यथाशास्त्रं कार्यो मेधाविभिः स्वयम् ॥ ! ७ ग्रन्थस्यास्य प्रतिपाद्यं वस्तु - इत्थमेतावतास्माभिः संक्षेपेण बौद्धानां निकायभेदेन तेषां सिद्धान्तो विमृष्टः । इदानीं सौगतसिद्धान्तप्रतिपादनपटोरस्य तत्त्वसंग्रहस्य प्रतिपाद्यो वादो विमृश्यते । अस्मिन् तत्त्वसंग्रहे आचार्यः परसिद्धान्तनिरसनैकलक्ष्यो न प्रकाशयति स्वसम्मतवादप्रक्रियाम् । अविज्ञाततत्सम्मतवादप्रक्रियस्तु जिज्ञासुर्नात्र गभीरं प्रवेष्टं प्रभवतीत्यभिलक्ष्यात्रापि किञ्चिद् वक्ष्यते । उपर्युक्तेषु चतुर्षु वादेषु शान्तरक्षितस्य कः पक्षोऽभिप्रेतः ? इत्यत्र वयमेतदेव ब्रूमः - अयं हि ग्रन्थकारः नैरात्म्यबोधनैकहृदयान् सौगतंसिद्धान्तान् सुखप्रचारान् विधातुकामस्तात्कालिककापिलनैयायिक-मीमांसकादिवादान् एकैकशः सुदृढं निरस्यति । स्वसिद्धान्तसमर्थनोद्यतस्य पराभिमतनिरसनमिव स्वसिद्धान्तस्फोरणमपि प्रथमं कर्तव्यमासीत् परं ग्रन्थेऽस्मिन् तत्र तत्र परपक्षनिरसन इव स्वसम्मतप्रक्रियावर्बोधनेऽस्य समादरो न दृश्यते । नात्र स्कन्धायतनादयः प्रतीत्यसमुत्पादा विस्तरशो निरूपिताः, नापि तत्प्रकार:, न वा चित्तचैत्तादिविभागः, न वा मार्गप्रक्रिया । अतोऽस्य ग्रन्थस्य ये साक्षाद्विरोधिनः कापिलादयस्तेषां वादानां निरसन एव तात्पर्यमिति निश्चीयते । अत एवायं परैः सह तंत्र तत्र विरोधे वैभाषिकसौत्रान्तिकादीनात्मीयेषु गणयन् समर्थयत एव। ग्रन्थहृदयं सर्वतोऽनुशीलयतां स्पष्टमिदं विज्ञायेतास्य परमतनिरसनलक्षणवादैकपरता । परमतनिरसनशेषतया त्वस्य मतमपि क्वचित् क्वचिद् गम्यते । तेनैतदनुमिनुमो यद् विज्ञानवाद एवात्र प्रस्तुत इति । आचार्यस्य को वादोऽभिप्रेतः ? यद्यपि विद्वांस आचार्यं शान्तरक्षितं स्वातन्त्रिकमाध्यमिकमाचक्षते । परन्तु नात्राचार्येण स्वातन्त्रिकमाध्यमिकप्रक्रिया क्वचिदपि विस्तरेण निरूपिता । सा प्रक्रिया मन्ये स्वरचित्तेऽन्यस्मिन् मध्यमकालङ्कारनामके, परमार्थविनिश्चये वा ग्रन्थे विवृता भवेदिति । I आचार्यः शान्तरक्षितः - सोऽयं शान्तरक्षितो वङ्गभूमौ ढाकामण्डले. विक्रमपुरानुमण्डले, जाहोराख्ये ग्रामे क्षत्रियकुले ख्रिष्टीयाष्टमशतकस्यादिमे भागे जातः । आचार्यबोधिसत्त्वा-. परनामधेयोऽयं नालन्दायां बौद्धमहाविहारे आचार्यपदमधिरूढः । अन्ते च तदानीन्तनेन भोटदेशाधिपतिना स्वदेशं सादरमाहूतस्तत्र बौद्धसिद्धान्तान् प्रचारयामास । अनेनाऽपरेऽपि ग्रन्था ग्रन्थिताः । यथा—धर्मकीर्तिकृते र्वादन्याये विपञ्चितार्था टीका, मध्यमकालङ्कारग्रन्थ इत्यादयः । इत्येषोऽस्य जीवन-वृत्तसंक्षेपः । ĭ तच्छिष्यः कमलशीलः - अस्य ग्रन्थस्य 'पञ्जिका' व्याख्याकार आचार्यः कमलशीलस्तु आचार्यशान्तरक्षितस्यैव शिष्यः, तस्यैव च समये नालन्दायां बौद्धमहाविहारे तन्त्रशास्त्रे - ऽध्यापकपदमलमकार्षीत् । अनेन 'न्यायबिन्दुपूर्वपक्षसंक्षेप' प्रभृतयोऽन्येऽपि निबन्धा निबद्धा: - इत्यैतिह्यविदः । इदं संस्करणम् १. संस्करणमिदमस्माभिः जैसलमेरदुर्गस्थजिनभद्रसूरीश्वरताडपत्रीयजैन

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 444