Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 15
________________ आमुखम् १३ भिक्षुसङ्घः-भगवन्तो बुद्धास्तदानीन्तनब्राह्मणा इव ईश्वरसत्तां वेदप्रामाण्यं वा न स्वीचक्रुः, नापि श्रमणा इव नास्तिकवादं प्रख्यापयामासुः, अपितु इमावुभावपि मार्गों विहाय मध्यममार्गमुपदिदिशुः । ईश्वरसत्तामस्वीकृत्यापि ते पुनर्जन्मपरलोकादिविषये प्रतिपन्नाः कर्मकर्मफलसम्बन्धं स्वीचक्रुः । इयमेव बुद्धोपदेशानामुपलभा यत्तदानीन्तने आर्यावर्ते नास्तिकवादोऽस्तमितः, आर्यसंस्काराश्च पुनः प्रतिष्ठामापुः । एवं बौद्धसिद्धान्तानां चतुरस्रगत्या पराक्रमेण ते पूर्वोक्ता नास्तिकास्तापसाश्च लोके प्रभावहीना नि:श्रीकाश्चाभूवन्, बुद्धपथपरिव्राजां भिक्षूणां सङ्घश्च सर्वत्र गृहस्थानां नागरिकाणाम्, राज्ञाम्, सम्राजां च प्रश्रयमुपलभ्य सर्वतो भावेनोन्नतिशिखरमारूढः । सम्राजि अशोके तु महीं शासति भिक्षुसङ्घोऽयमार्यावर्ते प्रहररविवद् देदीप्यमान आसीत्। सङ्के निकायभेदः - भगवतो बुद्धस्य महापरिनिर्वाणानन्तरमयं भिक्षुसङ्घो गच्छता कालेनमहासाङ्घिकनिकायः, स्थविरनिकायश्चेति निकायद्वये विभक्तोऽभूत् । तत्र स्थविरनिकायो विनयानुरोधी महासाचिकनिकायस्योदारचिन्तकस्य प्रतिद्वन्द्वी। इमौ द्वावपि निकायावग्रे१. आर्यमहासाचिकनिकायः, २. आर्यस्थविरनिकाय:, ३. आर्यमूलसर्वास्तिवादनिकाय:, ४. आर्यमहासम्मितीयनिकायश्चेति चतुर्धा विभक्तः । बहुतिथेच काले गते चतुर्णामेषामप्यष्टादश भेदा जाताः। तथा हि-आर्यमहासाविकनिकायस्य सप्त, आर्यस्थविरनिकायस्य त्रयः, आर्यमूलसर्वास्तिवादनिकायस्य चत्वारः, आर्यमहासम्मितीयनिकायस्य च चत्वार इति। एवमयं भिक्षुसङ्घो भगवतो महापरिनिर्वाणानन्तरं त्रिशतवर्षेष्वेव विचारभेदेनाष्टादशधा विभक्तोऽभूत्। तत्रार्यमूलसर्वास्तिवादस्यापीमे चत्वारो भेदा जाता:- १. मूलसर्वास्तिवादनिकायः, २.धर्मगुप्तनिकाय:, ३. महीशासकनिकायः, ४. काश्यपीयनिकायश्च। सर्वास्तिवादः-आर्यावर्ते एष्वष्टादशसु निकायेषु कदाचित् मूलसर्वास्तिवादस्य सर्वतोऽधिकतमः प्रचारः प्रभावश्चासीत्। 'सर्वं बाह्यमाध्यात्मिकं च वस्तुजातमस्ति' इति मन्यन्ते स्म सर्वास्तिवांदिनः। सोऽयं निकाय: विचारवैमत्येन स्थविरनिकायतो बहो: कालात् पूर्वमेव पार्थक्यमभजत्। प्रसिद्धचीनयात्रिण इत्सिङ्गमहोदयस्य यात्राविवरणेनेदं स्पष्टं प्रतीयते यत्तस्य यात्राकालेऽस्मिन्नार्यावर्ते भिक्षुसङ्के चत्वारः प्रमुखनिकाया आसन्, येष्वेक आर्यमूलसर्वास्तिवादनिकायोऽप्यासीत्। धर्मगुप्तमहीशासक-काश्यपीयनिकाया अपि सामान्येन एतनिकायान्तर्भूता एवासन्, न किमपि प्रमुखं वैशिष्ट्यमित एषु निकायेषु। गन्धारेषु कश्मीरेषु चायं निकायः पूर्वं वैभाषिकनिकायनाम्ना ख्यातिमुन्नतिं चालभत। 'विभाषया दीव्यन्ति चरन्ति वेति वैभाषिकाः' इति व्युत्पत्तिः । ज्ञाप्रस्थानग्रन्थस्य व्याख्या नाम्ना 'विभाषा' आसीत्, वसुमित्रोऽस्या व्याख्याया रचयिता। ज्ञानप्रस्थानस्य च रचयिता सर्वास्तिवादी कात्यायनीपुत्रः-इत्यैतिह्यविदः। अस्या विभाषाया रचनाकालो महाराजकनिष्कतः परवर्ती। अस्यां व्याख्यायां सर्वास्तिवादनिकायस्य प्रमुखाणां सर्वेषामाचार्याणां मतानि यथायथमुपनिबद्धानि-विनेया यथेच्छं किमपि मतं गृह्णीयुरिति। महाविभाषाशास्त्रम्' इति चास्याः पूर्ण नाम। अस्याश्च विपुलकायत्वेन जिज्ञासूनां दुरधिगम्तयाऽऽचार्येण वसुबन्धुना 'अभिधर्मकोष' नाम्ना एषा संक्षेपं नीता। वैभाषिकनयः-यत्किञ्चिदिदं जगति सत् तत्सर्वं वैभाषिकनये विषयि-विषयभेदेन द्विधा विभक्तुं शक्यते। विषयिगतविभागे त्रयो भेदाः-पञ्च स्कन्धाः, द्वादशायतनानि. अष्टादश

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 444