Book Title: Tattvasangraha Part 01 Author(s): Dwarikadas Shastri Publisher: Bauddh BharatiPage 13
________________ प्रास्ताविकं किञ्चित् शास्त्रिभिः श्रीद्वारिकादासस्वामिभिः तत्तत्पुस्तकभाण्डागारेषु पुरातनाद्यतनप्राप्तमातृकाधारेण परिष्कृत्य, प्रसङ्गबोधकनि नवशीर्षकाणि यथायथं समारोप्य, यत्र तत्र त्रुटितांशांश्च भोटभाषयानूदिततत्त्वसंग्रहपञ्जिकासाहाय्येन देववाण्या पुनः संस्कृत्य योऽयं सव्याख्यस्तत्त्वसंग्रहः पूर्वमुद्रितसंस्करणापेक्षया शोभनतरः प्रकाशितः, तेन नूनमिमेऽभिनन्दनीयतां गच्छन्ति । यदा तैर्बोद्धशास्त्रमस्मिन् विश्वविद्यालयेऽधिगतम्, तदानीं तत्त्वसंग्रहमनवाप्य स्वयं यत् कष्टमनुभूतम्, परेषां च यद् दृष्टम्, तत्फलेनैवानुपलब्धविशिष्टबौद्धग्रन्थानामुपलब्धये 'बौद्ध भारती'प्रतिष्ठानमाध्यमेन तेषामयं प्रकाशनसङ्कल्पः । तत्रायं सागरायमाणः सव्याख्यस्तत्त्वसंग्रहग्रन्थः प्रथमपुष्पत्वेन प्रकाशितः । ११ I वस्तुत एते स्वामिनः स्वामिन एव, न चाविरक्ता धनवन्तः स्वामिनः । अत एव तत्प्रकाशनव्यवस्थया नैते धनपतित्वं न वा क्वचिदाधिपत्यं कामयन्ते । तेषामयं प्रयासः. बौद्धसिद्धान्तानां पुनः प्रचाराय प्रसाराय च। एतेनैव कारणेनैतद्वेगविवशैरेतैर्मासद्वयाभ्यन्तरेऽस्य प्रथमः खण्डः प्राकाश्यं नीतः, मन्ये चैतत्खण्डस्य विद्वद्भिर्यावदानुपूर्वीवाचनं क्रियेत तावदेव द्वितीयः खण्डः प्रकाशितो भवेत् । कार्ये विलम्बमसहमानैरेवैतैरभिमतोऽपि क्वचित् क्वचित् स्थलादिसङ्केतो न कृतः । आशासे ग्रन्थावसाने स्वामिभिरेतादृशमभिमतमपि सम्यक् पूरयितव्यं स्यात् । एतद्ग्रन्थप्रकाशनपुण्यपुञ्जानुभावेन स्वामिद्वारिकादासशास्त्रिणां सङ्कल्पः सफलो भवेदिति कामयते ३. २. १९६८ वा० सं० विश्वविद्यालय: वाराणसी. जगन्नाथ उपाध्यायः (बौद्धदर्शनविभागाध्यक्षः )Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 444