Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 10
________________ एतेषु दशाध्यायेषु विभक्तानां सूत्राणां संख्या 344 इति श्वेताम्बराणां मान्यता, दिगम्बरास्तु तत्संख्या 357 मन्यन्ते / यत उभयोरपि सम्प्रदाययोर्माननीयस्यास्य ग्रन्थस्य सूत्रेषु सइनख्याभिन्नता पाठान्तराणि च सन्ति / दिगम्बरेष्वस्य ग्रन्थस्य मोक्षशास्त्ररूपेणापि प्रसिद्धिः / एकशः पाठकरणेन एकोपवासोपार्जितपुण्यं च भवतीति गरीयसीयं समादृतिः। ___उक्तं चप्रन्थस्य महस्वम “दशाध्यायपरिच्छिन्ने, तत्वार्थे पठिते सति / फलं स्यादुपवासस्य, भाषितं मुनिपुङ्गवैः // 1 // " अस्य सार्वसिद्धान्तसारभूतस्य ग्रन्थस्य यद् महत्त्वं तदनुमीयते तदुपरि संस्कृत-हिंदीगुजराती कर्णाटकीय-आङ्ग्ल-जर्मन-भाषासु लिखितानां उपलब्धविवरणानां दर्शनात् / एतेषां किश्चित् स्वरूपं विचार्यते / तत्र श्वेताम्बरसम्प्रदाये 1 तत्त्वार्थस्त्रभाष्यं 2200 श्लोकप्रमाणकं वाचकवर्यश्रीउमास्वातिविरचितम् / 2 श्रीसिद्धसेनदिवाकरगुम्फितं गन्धहस्तिमहाभाष्यम् (1) / 3 श्रीदिन्नगणिशिष्यसिंहस्रिप्रशिष्यसिद्धसेनगणिकृता भाष्यानुसारिणी 18282 लोकपरिमिता टीका। श्रीहरिभद्रमुरिप्रणीता भाष्यानुसारिणी 11000 श्लोकपरिमिता टीका। . 5 न्यायविशारदन्यायाचार्यमहामहोपाध्यायश्रीयशोविजयविरचिता टीको भाष्यसर्कानुसारिणी। 6 श्रीमलयगिरिसरिसंदृब्धा टीका। 7 श्रीतत्वार्थटिप्पणकं चिरन्तनमुनिवर्यप्रणीतम् / १वं भाष्यं पश्चाध्यायपर्यन्तं प्रन्थेऽस्मिन् मुद्रितमस्ति / 2 अधुनेदं नोपलभ्यते / 3 इयं टीका पश्चाध्यायपर्यन्ताऽस्मिन् अन्थे मुद्रिता, शेषभागस्तु भविष्यति मुद्रितः / - "तत्वार्थमूलटीकायां हरिभद्रसूरि"रित्युल्लेखः प्रवचनसारोद्धारटीकायां ३३७तमे पत्रे। परम्परानुसारेण सार्धपचाध्यायपर्यन्ता टीका श्रीहरिभद्रसरिकृता, अवशिष्टा तु तच्छिष्यवर्यश्रीयशोभद्रसरिभी रचिता। 5 प्रथमाप्यायपर्यन्ता मुद्रापिता अमदावादस्थश्रेष्ठिवर्यमनसुखभाईतनुजनुर्माणेकलालभाईश्रेष्ठिप्रवरेण / ततः परमनुपलब्धेः। 6 अस्याः सम्भवे श्रीमलयगिरिसूरिमिः प्रज्ञापनावृत्तौ निम्नलिखितोल्लेखो हेतुः “यथा च प्रमाणबाधितत्वं तथा तत्त्वार्थटीकायां भावितमिति ततोऽयधार्यम् / " इंदं अमदावादस्थमाणेकलालभाईछिवर्येण मुद्रापितम् /

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 514