Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ चार्यः 'प्रज्ञापना'छत् श्रीवीरात् षट्सप्तत्यधिकशतत्रये (376) स्वर्गभाव / प्रो० पिटर्सनकते रिपोर्टसंज्ञके पुस्तके उमास्वातिसमयः श्रीवीराद न शतत्रयीपूर्विक इत्युल्लेखः / " मतोऽनुमीयते श्रीउमास्वातयः श्रीवीरात् द्विशताब्दीपूर्वकालीनान, श्रीवीरात् प्रायः ७२०तमे वर्षे तेषां प्रादुर्भाव इति युगप्रधानावल्याधारेणानुमीयते / दिगम्बरसम्प्रदायानुसारेण श्रीवीरात् 714-798 पर्यन्तो जीवनकाल: श्रीउमास्वातीनाम् / - यद्यपि श्रीउमास्वातीनां समयमीमांसने एतादृशी भिन्नता वर्तते, तथापीदं सुनिवितं सम्भाव्यते यदेतेषां प्रादुर्भावः श्रीवीरात् द्विशताब्दीत उत्तरकालीनः, नवमशताब्दीतः पूर्वकालीन इति // अथ दिक्पटानुसारी वृत्तान्तो लिख्यते / तत्रास्मिन् ग्रन्थे दत्तानां कचित् पाठसंख्याभिमानां सूत्राणां रचयितारः प्राप्तचरणर्द्धयः पद्मनन्दापराभिधाना उमास्वातयः / एकदा जैनसिद्धान्तविषयिणी खशङ्कां दूरीकर्तुं ते विदेहक्षेत्रवर्तिश्रीम___नामान्तरम् धरतीर्थकरमुपाजग्मुः / चारणार्द्धबलात् गगनपथा गच्छतां तेषां . हस्तन्यस्ता मयूरपिच्छिकाऽधः पतिता। तदानीं विष्णुचरणविहारिणः कस्यचिद् गृध्रस्य पिच्छिका गृहीत्वा निजकर्म निर्वाह्य पुरः प्रचेलुः / अतस्तेषां गृध्रपिच्छ इत्यपरा आहा आसीत् / उक्तं च "तत्त्वार्थसूत्रकर्तारं, गृध्रपिच्छोपलक्षितम् / वन्दे गणीन्द्रसंयात-मुमास्वामिमुनीश्वरम् / / " ... एतैर्महाशयः का भूमिः स्वजन्मनाऽलङ्कृतेति न ज्ञायते / परन्तु यदि चरमतीर्थकरश्रीमहावीरनिर्वाणसमयः ख्रिस्तशकात् 527 वर्षपूर्वको निश्चीयते तर्हि उमास्वातीनां इ० स० 135-239 जीवनकालः / जन्मन एकोनविंशतिवर्षेषु व्यतीतेषु जीवनरेखा महसोद्विग्नः एभिर्महाशयैः श्रीकुन्दकुन्दाचार्यसमीपे दीक्षा कक्षीकता। ततः पञ्चविंशतिवर्षान्ते च सूरिपदं प्राप्तम् / अनेनाधारेणैषां जीवनकालस्प स्थूलरूपरेखाऽनुमीयते, सा यथावीरात् स्त्रिस्ताव जन्म ७१४तमेऽब्दे १३५तमेऽन्दे दीक्षा 733 // सूरिपदम् 758 , स्वर्गगमनम् 798 , 219 // 154 // 179 ,
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f4ff2d48b8d1d3d9fdaf2404d715d84a2cff277b8327e3d9adf1b0072acc5d1d.jpg)
Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 514