Book Title: Tattvarthadhigam Sutra Pancham Adhyaya Vivechan
Author(s): Vikramsuri, Naypadmashreeji
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 596
________________ પરિશિષ્ટ-૧ पञ्चमो अध्यायः (उमास्वातिविरचितं स्वोपज्ञभाष्यम्) भा०-उक्ता जीवाः, अजीवान् वक्ष्यामः ॥ अजीवकाया धर्माधर्माकाशपुद्गलाः ॥ ५-१॥ भा०-धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायः पुद्गलास्तिकाय इत्यजीवकायाः तान् लक्षणतः परस्ताद्वक्ष्यामः, कायग्रहणं प्रदेशावयवबहुत्वार्थमद्धासमयप्रतिषेधार्थं च ॥१॥ द्रव्याणि जीवाश्च ॥ ५-२॥ भा०-एते धर्मादयश्चत्वारो प्राणिनश्च पञ्च द्रव्याणि च भवन्तीति, उक्तं हि ‘मतिश्रुतयोनिर्बन्धो द्रव्येष्वसर्वपर्यायेषु' 'सर्वद्रव्यपर्यायेषु केवलस्येति ॥२॥ नित्यावस्थितान्यरूपाणि च ॥ ५-३ ॥ भा०-एतानि द्रव्याणि नित्यानि भवन्ति, 'तद्भावाव्ययं नित्य' मिति वक्ष्यते । अवस्थितानि च, न हि कदाचित् पञ्चत्वं भूतार्थत्वं च व्यभिचरन्ति । अरूपाणि च, नैषां रूपमस्तीति, रूपं मूर्तिः, मूर्त्याश्रयाश्च स्पर्शादय इति ॥३॥ रूपिणः पुद्गलाः ॥५-४॥ भा०-पुद्गला एव रूपिणो भवन्ति, रूपमेषामस्ति एषु वाऽस्तीति रूपिणः ॥४॥ आऽऽकाशादेकद्रव्याणि ॥५-५॥ भा०-आ आकाशाद्धर्मादीन्येकद्रव्याण्येव भवन्ति, पुदगलजीवास्त्वनेकद्रव्याणीति ॥५॥

Loading...

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606