Book Title: Tattvarthadhigam Sutra Pancham Adhyaya Vivechan
Author(s): Vikramsuri, Naypadmashreeji
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 601
________________ ૫૯૨ अणवः स्कन्धाश्च ।। ५-२५ ॥ भा०-उक्तं च-कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥ इति । तत्राणवोऽबद्धाः, स्कन्धास्तु बद्धा एवेति ॥ २५ ॥ अत्राह-कथं पुनरेतद् द्वैविध्यं भवतीति ? अत्रोच्यते - स्कन्धास्तावत् ॥ તત્ત્વાર્થ સૂત્ર संघातभेदेभ्य उत्पद्यन्ते ॥ ५-२६ ॥ भा०-संघाताद्भेदात्संघातभेदादिति, एभ्यस्त्रिभ्यः कारणेभ्यः स्कन्धा उत्पद्यन्ते द्विप्रदेशादयः । तद्यथा-द्वयोः परमाण्वोः संघाताद् द्विप्रदेशः, द्विप्रदेशस्याणोश्च संघातात्त्रिप्रदेशः एवं संख्येयानामसंख्येयानामनन्तानामनन्तानन्तानां च प्रदेशानां संघातात् तावत्प्रदेशाः । एषामेव भेदाद्विप्रदेशपर्यन्ताः । एत एव संघात भेदाभ्यामेकसामयिकाभ्यां द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते, अन्यस्य संघातेनान्यतो भेदेनेति ||२६|| अत्राह- अथ परमाणुः कथमुत्पद्यत इति ? अत्रोच्यते भेदादणुः ॥ ५-२७॥ भा०- भेदादेव परमाणुरुत्पद्यते, न संघातादिति ॥२७॥ भेदसंघाताभ्यां चाक्षुषाः ॥ ५-२८ ॥ भा०- भेदसंघाताभ्यां चाक्षुषाः स्कन्धा उत्पद्यन्ते, अचाक्षुषास्तु यथोक्तात्संघाताद्भेदात्संघातभेदाच्चेति ॥२८॥ अत्राह - धर्मादीनि सन्तीति कथं गृह्यत इति ?, अत्रोच्यते, लक्षणतः ॥ किं च सतो लक्षणमिति ? अत्रोच्यते उत्पादव्ययध्रौव्ययुक्तं सत् ॥ ५-२९ ॥ भा०- उत्पादव्ययाभ्यां ध्रौव्येण च युक्तं सतो लक्षणम्, यदुत्पद्यते यद्व्येति यच्च ध्रुवं तत्सत्, अतोऽन्यदसदिति ॥ २९॥ अत्राह-गृह्णीमस्तावदेव लक्षणं सदिति, इदं तु वाच्यं तत्किं नित्यमाहोस्विदनित्यमिति ?, अत्रोच्यते

Loading...

Page Navigation
1 ... 599 600 601 602 603 604 605 606