Book Title: Tattvarthadhigam Sutra Pancham Adhyaya Vivechan
Author(s): Vikramsuri, Naypadmashreeji
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 603
________________ ૫૯૪ તત્ત્વાર્થ સૂત્ર अत्राह-सदृशग्रहणं किमपेक्षत इति ?, अत्रोच्यते- गुणवैषम्ये सदृशानां बन्धो भवतीति ॥३४॥ अत्राह-किमविशेषेण गुणवैषम्ये सदृशानां बन्धो भवतीति ?, अत्रोच्यते द्वयधिकादिगुणानां तु ॥ ५-३५ ॥ भा०-व्यधिकादिगुणानां तु सदृशानां बन्धो भवति, तद्यथा स्निग्धस्य द्विगुणाद्यधिकस्निग्धेन, द्विगुणाद्यधिक स्निग्धस्य एक गुण स्निग्धेन रूक्षस्यापि द्विगुणाद्यधिकरूक्षेण, द्विगुणाद्यधिकरूक्षस्य एकगुण रूक्षेण, एकादिगुणाधिकयोस्तु सदृशयोर्बन्धो न भवति, अत्र तुशब्दो व्यावृत्तिविशेषणार्थः प्रतिषेधं व्यावर्तयति बन्धं च विशेषयति ॥३५॥ अत्राह-परमाणुषु स्कन्धेषु च ये स्पर्शादयो गुणास्ते किं व्यवस्थितास्तेषु आहोस्विदव्यवस्थिता इति ?, अत्रोच्यते-अव्यवस्थिताः, कुतः ?, परिणामात् ॥ अत्राह-द्वयोरपि बध्यमानयोर्गुणवत्त्वे सति कथं परिणामो भवतीति ?, उच्यते बन्धे समाधिकौ पारिणामिकौ ॥ ५-३६ ॥ भा०-बन्धे सति समगुणस्य समगुणः परिणामको भवति, अधिकगुणो हीनस्येति ॥३६|| अत्राह-उक्तं भवता द्रव्याणि जीवाश्चेति, तत्, किमुद्देशत एव द्रव्याणां प्रसिद्धिः आहोस्विल्लक्षणतोऽपीति ?, अत्रोच्यते- लक्षणतोऽपि प्रसिद्धः, तदुच्यते गुणपर्यायवद् द्रव्यम् ॥ ५-३७॥ गुणान् लक्षणतो वक्ष्यामः, भावान्तरं संज्ञान्तरं च पर्यायः, तदुभयं यत्र विद्यते तद् द्रव्यम्, गुणपर्याया अस्य सन्ति अस्मिन् वा सन्तीति गुणपर्यायवत् ॥३७।। कालश्चेत्येके ॥ ५-३८॥ भा०-एके त्वाचार्या व्याचक्षते-कालोऽपि द्रव्यमिति ॥३८॥ सोऽनन्तसमयः ॥५-३९॥ भा०-स चैष कालोऽनन्तसमयः, तत्रैक एव वर्तमानसमयः, अतितानागतयोस्त्वानन्त्यम् ॥३९॥ अत्राह-उक्तं भवता 'गुणपर्यायवद्र्व्य'मिति, तत्र के गुणा इति ?, अत्रोच्यते द्रव्याश्रया निर्गुणागुणाः ॥ ५-४०॥ भा०-द्रव्यमेषामाश्रय इति द्रव्याश्रयाः, नेषां गुणाः सन्तीति निर्गुणाः ॥४०॥

Loading...

Page Navigation
1 ... 601 602 603 604 605 606