Book Title: Tattvarthadhigam Sutra Pancham Adhyaya Vivechan
Author(s): Vikramsuri, Naypadmashreeji
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 604
________________ પરિશિષ્ટ-૧ अत्राह-उक्तं भवता 'बन्धे समाधिकौ पारिणामिकौ' इति, तत्र कः परिणाम इति ?, अत्रोच्यते तद्भावः परिणामः ॥ ५-४१ ॥ भा०-धर्मादीनां द्रव्याणां यथोक्तानां च गुणानां स्वभावः स्वतत्त्वं परिणामः ॥४१॥ स द्विविधः - अनादिरादिमांश्च ॥ ५-४२॥ भा०- तत्रानादिररूपिषु धर्माधर्माकाशजीवेष्विति ॥ ४२ ॥ ૫૯૫ रूपिष्वादिमान् ॥ ५-४३ ॥ भा० - रूपिषु तु द्रव्येषु आदिमान् परिणामोऽनेकविधः स्पर्शपरिणामादिरिति ॥४३॥ योगोपयोगी जीवेषु ॥ ५-४४ ॥ भा०- जीवेष्वरूपिष्वपि सत्सु योगोपयोगौ परिणामावादिमन्तौ भवतः, तत्रोपयोगः पूर्वोक्तः, योगस्तु परस्ताद्वक्ष्यते ॥४४॥

Loading...

Page Navigation
1 ... 602 603 604 605 606