Book Title: Tattvarthadhigam Sutra Pancham Adhyaya Vivechan
Author(s): Vikramsuri, Naypadmashreeji
Publisher: Shrutnidhi
View full book text
________________
૫૯૦
તત્ત્વાર્થ સૂત્ર शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् ॥ ५-१९॥ भा०-पञ्चविधानि शरीराण्यौदारिकादीनि वाङ्मनः प्राणापानाविति पुद्गलानामुपकारः । तत्र शरीराणि यथोक्तानि, प्राणापानौ च नामकर्मणि व्याख्यातौ । द्वीन्द्रियादयो जिह्वेन्द्रिययोगाद्भाषात्वेन गृह्णन्ति, नान्ये संज्ञिनश्च मनस्त्वेन गृह्णन्ति, नान्य इति । वक्ष्यते हि 'सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते' इति ॥१९॥ किं चान्यत्
सुखदुःखजीवितमरणोपग्रहाश्च ॥ ५-२०॥ भा०-सुखोपग्रहो दुःखोपग्रहो जीवितोपग्रहो मरणोपग्रहश्चेति पुद्गलानामुपकारः ।
तद्यथा-इष्टाः स्पर्शरसगन्धवर्णशब्दाः सुखस्योपकारः, अनिष्टा दुःखस्य, स्नानाच्छादनानुलेपनभोजनादीनि विधिप्रत्युक्तानि जीवितस्यानपवर्तनं चायुष्कस्य, विषशस्त्राग्न्यादीनि मरणस्यापवर्तनं चायुष्कस्य ॥
अत्राह-उपपन्नं तावदेतत् सोपक्रमाणामपवर्तनीयायुषाम्, अथानपवायुषां कथमिति ?, अत्रोच्यते
तेषामपि जीवितमरणोपग्रहः पुद्गलानामुपकारः, कथमिति चेत्तदुच्यते,
कर्मणः स्थितिक्षयाभ्याम्, कर्म हि पौद्गलमिति, आहारश्च त्रिविधः सर्वेषामेवोपकुरुते, किं कारणम् ?, शरीरस्थित्युपचयबलवृद्धिप्रीत्यर्थ ह्याहार इति ॥२०॥
अत्राह-गृह्णीमस्तावद्धर्माधर्माकाशपुद्गला जीवद्रव्याणामुपकुर्वन्तीति, अथ जीवानां क उपकार इति ?, अत्रोच्यते
परस्परोपग्रहो जीवानाम् ॥ ५-२१ ॥ भा०-परस्परस्य हिताहितोपदेशाभ्यामुपग्रहो जीवानामिति ॥२१॥ अत्राह-अथ काल्योपकारः क इति ? अत्रोच्यते
वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥ ५-२२ ॥ भा०-तद्यथा-सर्वभावानां वर्तना कालाश्रया वृत्तिः, वर्तना उत्पत्तिः स्थितिः अथ गतिः प्रथमसमयाश्रया इत्यर्थः ।
परिणामो द्विविधः-अनादिरादिमांश्च, तं परस्ताद्वक्ष्यामः । क्रियागतिः, सा त्रिविधा-प्रयोगगतिः विस्रसागति: मिश्रिकेति ।

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606