Book Title: Tattvarthadhigam Sutra Pancham Adhyaya Vivechan
Author(s): Vikramsuri, Naypadmashreeji
Publisher: Shrutnidhi
View full book text
________________
પરિશિષ્ટ-૧
૫૮૯ भा०-अप्रदेशसङ्ख्येयासङख्येयानन्तप्रदेशानां पुद्गलानामेकादिष्वाकाशप्रदेशेषु भाज्योऽवगाह:, भाज्यो विभाष्यो विकल्प इत्यनन्तरम्, तद्यथा-परमाणोरेकस्मिन्नेव प्रदेशे, व्यणुकस्यैकस्मिन् द्वयोश्च, यकस्यैकस्मिन् द्वयोस्त्रिषु च, एवं चतुरणुकादीनां सङख्ये यासङख्येयप्रदेशस्यै कादिषु सङ्ख्येयेष्वसङ्ख्येयेषु च, अनन्तप्रदेशस्य च ॥१४॥
____ असङ्ख्येयभागादिषु जीवानाम् ॥ ५-१५॥ भा०-लोकाकाशप्रदेशानामसङ्ख्येयभागादिषु जीवानामवगाहो भवति, आ सर्वलोकादिति ॥१५॥ अत्राह-को हेतुरसङ्ख्येयभागादिषु जीवानामवगाहो भवतीति ?, अत्रोच्यते
प्रदेशसंहार विसर्गाभ्यां प्रदीपवत् ॥ ५-१६॥
भा०-जीवस्य हि प्रदेशानां संहारविसर्गाविष्टौ प्रदीपस्येव ।
तद्यथा-तैलवर्त्यग्न्युपादानप्रवृद्धः प्रदीपो महतीमपि कूटागारशाला प्रकाशयति अण्वीमपि माणिकावृतः माणिकां द्रोणावृतो द्रोणं आढकावृताश्चाढकं प्रस्थावृतः प्रस्थं पाण्यावृतो पाणिमिति ।
एवमेव प्रदेशानां संहारविसर्गाभ्यां जीवो महान्तमणुं वा पञ्चविधं शरीरस्कन्धं धर्माधर्माकाशपुद्गलजीवप्रदेशसमुदायं व्याप्नोतीति, अवगाहत इत्यर्थः ।
धर्माधर्माकाशजीवानां परस्परेण पुद्गलेषु च वृत्तिर्न विरुध्यतेऽमूर्तत्वात् ॥
अत्राह-सति प्रदेशसंहारविसर्गसंभवे कस्मादसङ्ख्येयभागादिषु जीवानामवगाहो भवति, नैकप्रदेशादिष्विति ?, अत्रोच्यते
सयोगत्वात् संसारिणां चरमशरीरत्रिभागहीनावगाहित्वाच्च सिद्धानामिति ॥१६॥
अत्राह-उक्तं भवता धर्मादीनस्तिकायान् परस्ताल्लक्षणतो वक्ष्याम इति, तत्किमेषां लक्षणमिति ?, अत्रोच्यते
गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः ॥ ५-१७ ॥ भा०-गतिमतां गतेः स्थितिमतां च स्थितेः उपग्रहो धर्माधर्मयोरुपकारो यथासङ्ख्यम्, उपग्रहो निमित्तमपेक्षा कारणं हेतुरित्यनर्थान्तरम्, उपकारः प्रयोजनं गुणोऽर्थ इत्यनान्तरम् ॥१७॥
__ आकाशस्यावगाहः ॥५-१८॥ भा०-अवगाहिनां धर्मपुद्गलजीवानामवगाह आकाशस्योपकारः । धर्माधर्मयोरन्तः प्रवेशसंभवेन पुद्गलजीवानां संयोगविभागैश्चेति ॥१८॥

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606