Book Title: Taittiriya Samhita Part 03
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 464
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १२.] भभास्करभाष्योपैता. 455 द्वान् । तं त्वा गृणामि तवसमतवीगृणामि । तवसम् । अतैवीयान् । क्षय॑न्तम् । अ कोभिप्रायः ? एषोभिप्रायः । केचिदाहुः---शेप इव निर्वेष्टितः संयतरश्मिश्शिपिविष्ट इति । अन्ये तु ब्रुवते-निविष्टशेपश्शिपिविष्ट इति । अपरे त्वाचक्षते-निवृत्तरश्मिश्शिपिविष्ट इति । नैतेषु त्रिष्वपि पक्षेषु अनेन पदेन कश्चिद्गुणोभिधीयते । अपि तु निन्दैव । ततश्चानेन पदेन निर्वापादि क्रियमाणमुपालम्भमस्यावहेत् । अत इमं दोषमपनेतुमिदमुक्तमिति । तत्कथमिति चेदुच्यते-नात्र शेपशब्दोस्ति ; न च केवलोपि विशिर्निरुपसृष्टस्यार्थमभिधातुमीष्टे । तस्मात् शिपयो रश्मयः ; श्यतेश्शिपयः तैक्षण्यात् ; तेषु प्रविष्टश्शिपिविष्ट इति प्रशंसापरमेतत् । अतोहमप्येतत्प्रशंसामीति । अतवीयान् तन्नामानं तवसं तपस्विनं महान्तम् । 'तु' इति वृद्धिकर्मा । असुन्नन्तादुत्पन्नो मत्वर्थीयो लुप्यते । अत एव प्रत्ययान्तरसान्त्या नविषयत्वाभावादाद्युदात्तत्वाभावः । ईदृशमहं गृणामि स्तौमि । अतवीयान्, अतिशयेन तपस्वी तवीयान् ततोन्योतवीयान् । यद्यप्यहं विद्यामहिना तवीयान्, तथापि त्वदपेक्षया अतवीयान् । तादृशोपि त्वत्प्रसादेन त्वां स्तौमीति । ‘विन्मतोलक ', तपस्विशब्दादीयसुन्प्रत्ययः । अत एवातिशय्यमानोपि तपस्वीति गम्यते । द्वयोर्हि तपस्विनोरन्यतरस्तपीयान् भवति । इदानीमुक्तं शिपिविष्टपदार्थ समर्थयितुमाह--अस्य रजसोन्तरिक्षस्य पराके परागते दूरे प्रदेशे क्षयन्तं निवसन्तं तथापि सर्वलोकप्रकाशकं त्वां स्तौमि इदं तव शिपिविष्टत्वम् अतः प्रशंसामीति । क्षि निवासगत्योः, व्यत्ययेन शप् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481