Book Title: Suktamala
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ जुलाई-२००७ क्षणादसारं सारं वा वस्तु सूक्ष्मः परीक्ष्य(क्ष)ते । निश्चिनोति मरुत् तूर्णं तूलोच्चय-शिलोच्चयो ।।३६।। न दौःस्थ्येऽपि निजं स्थानं मोक्तव्यमिति मे मतिः । मृगलक्ष्मा पुनर्लक्ष्मी किं नाऽभ्येति नभ:स्थितः ॥३७।। लोकरूढिरिह प्रौढिरस्तु वस्तु यथा तथा । दधि मङ्गलधौरेयं न पुरनर्दुग्धमभ्यधुः ॥३८॥ उत्कर्षश्चापकर्षश्च भृत्यानां भर्तृ-कर्तृको । दिवसान् दिवसाधीशश्चिनोत्यपचिनोति च ॥३९|| आत्मने तेऽभिद्रुह्यन्ति ये द्रुह्यन्ति महात्मने । पश्योलूकमनालोकमसूयन्तं विवस्वते ॥४०॥ सवृत्तैर्महतां पङ्क्तिराप्यते पितुरात्मजैः । मङ्गलेषु समश्चक्रे पत्रै म्रस्य पिप्पलः ॥४१।। धुरि ये मधुरात्मानः पुरतस्तेऽपि निष्फलाः । फले दुर्भक्ष्यमिक्षूणामक्षुण्णं - नेक्ष्यते ॥४२॥ यस्य लोकोत्तरं सूत्रमापदोऽप्यस्य सम्पदः । शुद्धिमग्नौ निमग्नस्य पश्य कस्याऽपि वाससः ॥४३॥ सुकृते सर्वतः क्षीणे श्रीरपि क्षीयते क्षणात् । पाथ: पूरे कथाशेषे किं नन्दत्यरविन्दिनी ॥४४।। विभवाभोगविस्फूर्तिरदृष्टैकनिबन्धना । क्षोणीरुहपरीणाहे हेतुर्मूलस्य सौष्ठवम् ॥४५॥ अहितेऽभ्युदिते कान्ति समूलस्यापि नश्यति । छायातरोरपि च्छाया फॉल्गुनेन [विनश्यति ॥४६॥ स्थानोपज्ञं विदुः स्थाने महिमानं मनीषिणः । देवशीर्षेषु शेषेति माल्यं निर्माल्यमन्यथा ॥४७॥ व्यवसौं यः प्रणाशाय स्वयंमस्थाननिर्मितः । बीजस्याऽपि प्रणाशाय प्रारब्धा कृषिरूपरे ॥४८॥ तेजस्विनः प्रभोः शत्रूनुच्छिनत्ति परिच्छदः । वैकतनास्तमोवार्ता निशुम्भन्ति गभस्तयः ॥४९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18