Book Title: Suktamala
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan
View full book text
________________ 38 अनुसन्धान-४० स्वोद्योतवीक्षणविनिर्जितचन्द्रपा, यस्याननं निरुपमं भविकस्य तोषम् / संवीक्ष्य नेत्रमपयाति भयप्रमाणं. भक्त्या नमामि सततं प्रभुपार्श्वनाथम् // 4 // पभेक्षणा घनपयोधरभारनम्राश्चैत्ये नरीनृतति यस्य पुरो ब्रुवाणाः / गीतस्तुति जिनपतेः कथिताऽऽर्यगाथं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् / / 5 / / श्रीस्तम्भनाधिपजिनं रतलामपावं, यं श्रीअवन्ति-मगसी-पुरतीर्थराजम् / नत्वा जिनं लभथ सौख्यमहो ! सुसार्थं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् / / 6 / / शकेश्वरादिरुचिरैर्जिननामधेयैः, पार्श्वप्रभुर्विजयते भुवि नीलवर्णः / सम्पूरयन् जनमनोऽभिमतं कृपार्थं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ||7|| योऽभ्यर्चितस्तु कुसुमैर्विधिना स्तुतो वा, पापं भिनत्ति भविनां यदि शं प्रदत्ते / कल्पद्रुमौघफलितश्च समीहितार्थं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् / / 8 / / इत्थं मुदा श्रीरतलामरत्न ! श्रीरत्नधीरस्य गुरोः प्रसादात् / ज्ञानप्रमोदेन जिनः स्तुतो वः, पायादपायात् स हि पार्श्वदेवः // 9 // इति श्री पार्श्वनाथस्य लघुस्तोत्रम् प्राकृत भारती अकादमी, १३-ए, मेन मालवीय नगर, जयपुर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 16 17 18