Page #1
--------------------------------------------------------------------------
________________
जुलाई - २००७
श्री नरेन्द्रप्रभसूरि विरचित सूक्तमाला
अमृत पटेल
कवि श्री नरेन्द्रप्रभसूरि-मलधारीओ 'विवेककलिका अने विवेकपादप नामना बे सूक्तिसंग्रहो - सूक्तसमुच्चयनी रचना करी छे. तथा अलंकार विषयक 'अलङ्कारमहोदधि' ओमनी ज प्रसिद्ध कृति छे. तथा अप्राप्य 'काकुत्स्थकेलि' पण एमनी कृति कहेवाय छे. प्रस्तुत सूक्तमाला पण एमनी कृति होवानी शक्यता छे. १२१ श्लोकैनी प्रस्तुत कृति अपूर्ण जणाय छे. श्लोकना पूर्वार्धमां उपदेश के नीतिविषयक सूक्तिओ छे अने उत्तरार्धमा व्यवहारिक डहापण, निमित्त, ज्योतिष वगेरेनी प्रचलित विगतोनी पुष्टि, मोटे भागे दृष्टान्त के अर्थान्तरन्यास अलंकार द्वारा अपाईं छे. भाषा प्रसादगुणने कारणे आस्वाद्य छे, अने अनुप्रास पण हृद्य छे. जुओ- 'राहुराहूयते केन विधोर्वैधुर्यहेतवे ॥ ९ ॥ के 'मन्दाकिनीमृदो वन्द्यास्त्रैवेदीवेदिनामपि ||१७|| आम तो समग्रकृति ज समग्र पणे लयसौन्दर्यनो अखूट खजानो छे.
-
आ सूक्तमालानुं संशोधन बे हस्तप्रत उपरथी थयुं छे. बन्ने प्रतो लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर, अमदावादनां हस्तप्रतभण्डारमां
छे.
२१
-
A
ला. द. भे. सू १९८८२, पञ्चपाठ, २६ x ११ से.मी. नी साईझमा ६ पत्रो छे बन्ने हांसियामां लालशाहीथी ऊभी लीटी करेल छे. पत्र मध्यभागे हरताल - चन्द्रक छे. आ प्रतमां १२१ पद्यो छे.
A - ला. द. भे. सू. २६५६५, नंबरनी छे. तेमां २५.५ x ११.३ से.मी. साईझनां ५ पत्रो छे, तेनां लिपिकार मुक्तिसौभाग्यगणि छे. आ प्रतमां १११ पद्यो छे, A प्रत उपर दृष्टान्तशतक अवचूरि अवुं नाम लखे छे. अने कर्ता तरीके 'मल० 'नरेन्द्रप्रभसूरि' नो उल्लेख छे. ( B प्रतमां आवो कोई उल्लेख नथी). माटे में कृतिकार तरीके नरेन्द्रप्रभसूरिने मान्या छे, छतां कृति अपूर्ण छे. जेने कारणे ग्रन्थकार विषे निर्णय करवो अघरो छे. माटे ज विवेकपादप, विवेककलिका तथा अलङ्कारमहोदधिनां उदाहरणो साथै प्रस्तुत कृति 'सूक्तमाला' नुं कृतिसत्त्व
Page #2
--------------------------------------------------------------------------
________________
२२
अनुसन्धान- ४०
अने कर्तृत्वसाहचर्य तपासवुं उचित छे सूक्तमालानुं ५मुं 'दधत्यार्त्तं सुखाकर्तुं' पद्य अलङ्कार महोदधिनां २७४मा उदा० तरीके नोंधायेल छे.
प्रत A नां निम्नलखित पद्यो प्रत B मां नथी
११, २४, ७१, ७४, १०२, १०५, १०६, १०७, १०९, ११०, १११, कुल १५ पद्यो नथी.
११२, ११३, ११४, ११५
=
प्रस्तुत कृतिनो उल्लेख श्री मो. र. देसाईनां के श्री ही. र. कापडियानां संस्कृत साहित्यना इतिहासग्रन्थोमां जोवा मळेल नथी.
प्रस्तुत सूक्तमालानां मङ्गल पद्यमां विविध भणितिभङ्गि द्वारा श्लोकमां 'सूक्तमाला'नी रचना करवानी प्रतिज्ञा छे. ते जोतां तेनी प्रशस्ति पण होवी जोईओ, जे नथी, जे कृतिनी असम्पूर्णता सूचवे छे.
A प्रत ने मुख्य राखीने सम्पादन कर्तुं छे. B उपयोग कर्यो छे, छतां योग्य लाग्या तेवा B प्रतना पाठो पाठो उल्लेख A पूर्वक पाठान्तरमां लीधा छे.
-
सूक्तमाला अपरनाम दृष्टान्तशतकम् प्रणिपत्य परं ज्योति ननाभणितिभङ्गिभिः । श्लोकैरेव यथाशक्ति सूक्तमालां वितन्महे ||१| कलाकलापसम्पन्ना जल्पन्ति समये परम् । घनागमविपर्यासे केकायन्ते न केकिनः ||२|| उपकर्त्ता स्वतः कश्चिदपकर्त्ता च कश्चन । चैत्रस्तरुषु पत्राणां कर्त्ता हर्ता च फाल्गुनः ॥३॥ कल्याणमूर्त्तेस्तेजांसि सम्पद्यन्ते विपद्यपि । किं वर्णिका सुर्वणस्य नारोहति हुताशने ॥४॥ दधत्यार्त्तं सुखाकर्तुं सन्तः सन्तापमात्मना । सुदुःसहं सहन्ते हि तरवस्तपनाऽऽतपम् ||५|| गुणिनः स्वगुणैरेव सेवनीयाः किमु श्रिया ? | कथं फलधिवन्ध्योऽपि नाऽनन्दयति चन्दनः ||६|| नहयेके व्यसनोद्रेकेऽप्याद्रियन्ते विपर्ययम् ।
-
प्रतनो पाठान्तरमां मूळमां अने A ना
Page #3
--------------------------------------------------------------------------
________________
जुलाई २००७
-
जहाति दह्यमानोऽपि घनसारो न सौरभम् ॥७॥ विकारमुपकारोऽपि कुरुते समयं विना । अकालोपस्थिता वृष्टि - महारिष्टाय जायते ॥८॥ निसर्गेणैव पिशुनः स्वजनोच्छेदमिच्छति । राहुराहूयते केन विधोर्वैधुर्यहेतवे ॥ ९ ॥ निजव्यापारनिश्चिन्ता निद्रायन्ते भुजङ्गमाः । जगद्रोहप्ररोहाय यतो जागत्ति दुर्जनः ॥१०॥ दुर्जन: कालकूटश्च ज्ञातमेतौ सहोदरौ । अग्रजन्माऽनुजन्मा वा न विद्मः कतरोऽनयोः || ११|| कर्णौ भोगभृतां मूर्ध्नि साधु नाऽधत्त यद् विधिः । सकर्णकोऽथ कुरुते मर्मवित् कर्म तादृशम् ॥१२॥ गर्व ! सर्वङ्कषोऽस्मीति गिरं मा स्म वृथा कृथाः । अद्यापि तव जैत्राणि चरित्राणि दुरात्मनाम् ॥१३॥ समर्थानां समर्थोऽरि-निग्रहाय परिग्रहः । प्रभविष्णुस्तमोऽन्ताय प्रभा प्रातः प्रभापतेः ॥ १४॥ स्वामिन्यस्तं प्रपेदाने सीदत्येव परिच्छदः । भास्वत्यस्तमिते म्लान - कमला: कमलाकराः ॥१५॥ चारणा परिवारेण प्रभुर्लोके महीयते । महीरुहेषु महितः 'किंकिल्लिर्निजपल्लवैः ॥१६॥ महिमानं महीयांसं सङ्गः सूते महात्मनाम् । मन्दाकिनीमुदो वन्द्यास्त्रवेदीवेदिनामपि ||१७|| सदा सर्वजनैर्भोग्यं श्लाघ्यं भवति वैभवम् । सुखपेयं (य) पयः पूरं वरं कूपात् सरोवरम् ॥१८॥ लोकम्पृणानपि गुणान् दोषः स्वल्पोऽपि दूषयेत् । अपेया पश्य पीयूष गर्गरी गरबिन्दुना ॥ १९ ॥ प्रीणयन्नुपकुर्वाणं कुर्यात् कार्यविर्चक्षणः । पुष्पन्धि (न्ध) यो न पुष्पाणि दुनोति स्वं धिनोति च ॥ २० ॥ क्रूरप्रभोः प्रभुत्वेन जनो जीवन् मृतायते । असन्त इव सन्तोऽपि स्युर्भावास्तिमिरोदयात् ॥२१॥
२३
Page #4
--------------------------------------------------------------------------
________________
२४
अनुसन्धान-४०
तावत् तेजस्विनस्तेजो यावद् भाग्यमभङ्गरम् । क्षीणतैलः कियत्कालं दीपो(पको)ऽपि प्रदीप्यते ॥२२॥ निजमन्दिरमुच्छिन्दन् जायते कोऽपि दुःसुतः । स्वाश्रयं नाशयत्याशु हताशोऽयं हुताशनः ॥२३॥
औरसः स्नेहमाहात्म्यं किञ्चिदन्यत् प्रवक्ष्यते । सम्पद्यापदि वा सिन्धु-विधुन्तुद(दा)नुरुध्यते ॥२४!! उपोर्जयति तत् कश्चिद् यन्नैवोपार्जि पूर्वजैः । फलं मधुरमाभ्रस्य न पुनः कुसुँमादयः ॥२५॥ मानिनां स्वामिना दत्तं मुदेऽल्पमपि कल्पते । वरं पौरन्दरं वारि बप्पीह ! पातुमीहसे ॥२६।। निर्लक्षणः क्षणालक्ष्मीमाश्रयस्यापि लुम्पते । पतन् कपोतः कुरुते शाखाशेषं हि शाखिनम् ॥२७|| चिरात् फैलिष्यतो नेतुर्दूरमुद्विजते जनः । कियत्कालं फलोत्तालस्तालमर्थी निषेवते ॥२८॥ कामं दूरफल(ल:) स्वामी लभते वचनीयताम् । अद्यापि कविभिस्तालः सोपालम्भं निबध्यते ॥२९।। प्रभोः संभावनाऽपैति तुच्छमेव प्रयच्छतः । अगादग्रेतनी कीर्तिर्वटस्येदृर्ग फलोदयः' ॥३०॥ प्रभवेत् परिभोगाय सर्वस्य दिवसो 'निजः' । दीपैरपि पैराल्लक्षैर्न हि दीपोत्सवो भवेत् ॥३१॥ सुकृतं सुकृतैर्लभ्यं यत् स्वतः परिपच्यते । पक्वस्य स्वयमाम्रस्य स्वादः कोऽप्यतिरिच्यते ॥३२।। सङ्गतिर्यादृशी तादूक ख्यातिरायाति वस्तुनः । रजनी ज्योत्स्नया ज्योत्स्त्री तमसा च तमस्विनी ॥३३।। क्लिश्यन्ते केवलं स्थूलाः सुधीः सुफलमश्नुते । ममन्थ मन्दर: सिन्धु रत्नान्यापुदिवौकसः ॥३४॥ आत्मीयमेव माहात्म्यं कुलं क्वापि न कल्पते । उदन्वदन्वयश्चन्द्रः कालकूट: किमन्वयः ॥३५॥
Page #5
--------------------------------------------------------------------------
________________
जुलाई-२००७
क्षणादसारं सारं वा वस्तु सूक्ष्मः परीक्ष्य(क्ष)ते । निश्चिनोति मरुत् तूर्णं तूलोच्चय-शिलोच्चयो ।।३६।। न दौःस्थ्येऽपि निजं स्थानं मोक्तव्यमिति मे मतिः । मृगलक्ष्मा पुनर्लक्ष्मी किं नाऽभ्येति नभ:स्थितः ॥३७।। लोकरूढिरिह प्रौढिरस्तु वस्तु यथा तथा । दधि मङ्गलधौरेयं न पुरनर्दुग्धमभ्यधुः ॥३८॥ उत्कर्षश्चापकर्षश्च भृत्यानां भर्तृ-कर्तृको । दिवसान् दिवसाधीशश्चिनोत्यपचिनोति च ॥३९|| आत्मने तेऽभिद्रुह्यन्ति ये द्रुह्यन्ति महात्मने । पश्योलूकमनालोकमसूयन्तं विवस्वते ॥४०॥ सवृत्तैर्महतां पङ्क्तिराप्यते पितुरात्मजैः । मङ्गलेषु समश्चक्रे पत्रै म्रस्य पिप्पलः ॥४१।। धुरि ये मधुरात्मानः पुरतस्तेऽपि निष्फलाः । फले दुर्भक्ष्यमिक्षूणामक्षुण्णं - नेक्ष्यते ॥४२॥ यस्य लोकोत्तरं सूत्रमापदोऽप्यस्य सम्पदः । शुद्धिमग्नौ निमग्नस्य पश्य कस्याऽपि वाससः ॥४३॥ सुकृते सर्वतः क्षीणे श्रीरपि क्षीयते क्षणात् । पाथ: पूरे कथाशेषे किं नन्दत्यरविन्दिनी ॥४४।। विभवाभोगविस्फूर्तिरदृष्टैकनिबन्धना । क्षोणीरुहपरीणाहे हेतुर्मूलस्य सौष्ठवम् ॥४५॥ अहितेऽभ्युदिते कान्ति समूलस्यापि नश्यति । छायातरोरपि च्छाया फॉल्गुनेन [विनश्यति ॥४६॥ स्थानोपज्ञं विदुः स्थाने महिमानं मनीषिणः । देवशीर्षेषु शेषेति माल्यं निर्माल्यमन्यथा ॥४७॥ व्यवसौं यः प्रणाशाय स्वयंमस्थाननिर्मितः । बीजस्याऽपि प्रणाशाय प्रारब्धा कृषिरूपरे ॥४८॥ तेजस्विनः प्रभोः शत्रूनुच्छिनत्ति परिच्छदः । वैकतनास्तमोवार्ता निशुम्भन्ति गभस्तयः ॥४९॥
Page #6
--------------------------------------------------------------------------
________________
२६
लक्ष्मीभवानि तेजांसि जीयन्ते राजतेजसा । कामं धम्मिलपुष्पेभ्यः शिखींपुष्पं विशिष्यते ॥५०॥ साक्षिणी स्यात् पितुः शिक्षा विनीतं तनयं प्रति । जात्येऽतिभासुरे रत्ने यत्नो वैकटिकस्य कः ॥ ५१ ॥ दुर्भेदमपि भिन्दन्ति हृदयङ्गम-सङ्गमाः । इन्दोः स्पर्शात् श्रवन्त्यम्भो बिन्दुनिन्दूपला अपि ॥५२॥ परेषां दुरितं हन्तुं झम्पासम्पातमप्यहो । अग्नौ करोति कोऽप्यत्र सिन्दुवारो निदर्शनम् ॥५३॥ न ज्ञातेयमुपादेयं गुणैः सम्पद्यते पदम् । खेर्व्यापारमादत्ते प्रदीपो न पुनः शनिः ॥ ५४ ॥ सर्वेषामप्यपास्यो यः सोऽपि कैश्चिदुपास्यते । प्रसह्य मृज्यतेऽन्यत्र नेत्रयोः पूज्यमञ्जनम् ॥५५॥ स्त्रीणां दोहदमन्वेति प्रसूतिरिति गीर्मृषा । केतक्यां प्रसवः सोऽय-मलमलिप्य दोहदम् ॥५६॥ आभ्यागारिकमभ्येति नात्मम्भरिमयं जनः । विहाय वाडवं लोकै" रम्भोधिरधिगम्यताम् ॥५७॥ जङ्घालत्वं जघन्यानामुन्मार्गेण निसर्गतः । तिमिपोतः प्रतिस्रोत: - पथेन पथिकः परम् ॥५८॥ गुणः प्रत्युत दोषाय ध्रुवं यः स्यादलौकिकः । गगनं शून्यमित्याहुस्तत्त्वतोऽतिमहत्त्वतः ॥५९॥ भवेद् भङ्गरवृत्तस्य न प्रभुत्वमुदित्वरम् । उवाह ग्रहसाम्राज्यं तपनो न पुनः शशी ॥६०॥ सभासन्निभमात्मानं दर्शयन्ति विशारदाः ।
अनुसन्धान- ४०
युक्त: (क्तं) क्रूरग्रहैः क्रूरः सौम्यः सौम्यैः पुनर्बुधः ||६१ || विशीर्यन्ते कदर्यस्य श्रियः पातालपत्रिमाः । अगाधमन्धकूपस्य पश्य सैवलितं पयः ॥ ६२॥ मितम्पचः प्रपञ्चेन केनचित् कार्यते व्ययम् । पादावर्त्तं विवर्त्तेन कूपादाकृष्यते पयः ||६३||
Page #7
--------------------------------------------------------------------------
________________
जुलाई-२००७
२७
याचते सङ्कचदृष्टिर्ददाति पुनरुद्धतः । लोनोऽम्बुदः पिबत्यम्बु दत्ते गर्जिभिर्जितः ॥६४|| गुणान् गुणवतां वेत्तुं विरलाः प्रभविष्णवः । वेत्ति रत्नपरीक्षायां लवमेकं न वल्लवः ॥६५॥ अस्तिमानस्तु, कः स्तौति वदान्यो न च चेन्नरः । रम्यापि केन रम्येत युवतिर्यदि दुर्भगा ॥६६॥ अलङ्कारोऽप्यलङ्कर्तुमलं स्थाने नियोजितः । श्रियं तौरस्रजः कण्ठे दधते नतु पादयोः ॥६७|| अर्थिनः खलु सेवन्ते सुलभश्रीकमीश्वरम् । पश्य श्रोतस्विनी-श्रोतः सर्वतो रुध्यतेऽध्वगैः ॥६८|| अवाप्यते धनं धन्यैर्यशोभिः सुरभीकृतम् । किं तव श्रवणोत्सङ्गमारुरोह न रोहणः ॥६९।। तावदर्थक्रियाकारी यावद् द्रव्यमभङ्गरम् । स्वर्णकुम्भस्तु भग्नोऽपि जीवयत्यनुजीविनम् ॥७०।। कालोऽपि कलुषः स स्यात् सन्तो यत्राऽऽपुरापदम् । रवेरस्तमयो यत्र स प्रदोषः प्रकीत्तितः ॥७१॥ परोपमवस्तूनामत्युच्वं पदमापदे । वातेनोन्नतिमानीतः पांशुपूरः पतत्यधः ॥७२।। भवेत् प्रभुत्वं पुण्येन न हिरण्येन जातुचित् । अद्रिराजस्तुषारादिर्न पुनः कनकाचलः ॥७३।। अविमृश्यातित्यागो हि] देशत्या[गाय जायते । तथा दृ(वृ)ष्टं घनैर्नष्टं वियतोपि यथा पुरः ॥७४| श्रीमन्तमुपतिष्ठन्ते नैव निर्धनमर्थिनः । वानस्पत्यान् परित्यज्य सेवन्ते केऽवकेशिनः ॥७५॥ तनुजो मा स्म भूद् यत्र जाते स्यान्मातुरातुरम् । कदल्याः किमभूत् पश्य फलोत्पत्तेरनन्तरम् ॥७६।। परोलेक्षेष्वपत्येषु ख्यातिरेकस्य कस्यचित् । सुबहुष्वम्बुजातेषु शब्दः शङ्खस्य केवलम् ।।७७।।
Page #8
--------------------------------------------------------------------------
________________
अनुसन्धान-४०
कार्यक्षमः परोप्याप्तः कृतं पुत्रेण पङ्गना । विभावसुर्वसुन्यासं रखेराप्नोति नो शनि: ॥७८॥ दत्ते विपत्तिमासक्तिः प्रभोरत्युग्रतेजसः । ग्रहमस्तमितं प्राहु-र्गतं मार्तण्डमण्डले ॥७९॥ नाऽऽनयन्ति धनं पत्यौ न कुलीनाः खलु स्त्रियः । स्रवन्त्यो वारिसर्वस्वमर्पयन्ति पयोनिधेः ॥८०।। दुर्जातमात्मना जातं पालयन्ति समुन्नताः । न वहन्ति पयोवाहाः किं नामाऽशनिमीदृशम् ॥८१।। यतन्ते समये सन्तः कृतार्थीकर्तृमर्थिनः । वर्षकाः किनु वर्षन्ति न वर्षासु पयोमुचः ॥८२।। तिरस्कारेपि रज्यन्ति द्विगुणं रागनिर्भराः । रङ्गः पादोपर्मेदन किं कुसुम्भस्य नैधते ॥८३॥ सर्वंसहानां वर्धिष्णुरुपकारोऽपकारिषु । अनन्तं दावदातृभ्यः फलन्ति क्षेत्रभूमयः ॥८४॥ अहो कस्यापि शब्दोऽपि कुटिलानां भयङ्करः । ध्वनिभिः शिखिनां नागाः पलायन्ते दिशोदिशम् ।।८५॥ दुःसनेनापि नापैति सतां स्वाभाविको गुणः । विषेण सह वास्तव्यो जीवातुः फणिनो मणिः ॥८६॥ नोन्मूलयति मालिन्यं सद्गुणोप्यात्मजः पितुः । पङ्केरुहेण पङ्कस्य कालिमा किं विलुप्यते ॥८७|| सूर्याचन्द्रमसोः केन राहुराहूयते भृशम् । प्रभुभ्यामपि नैताभ्यां क्षेत्रमस्मै यदर्पितम् ॥८८।। एकतानं मनः पापे नीचानामचिराद् भवेत् । ध्यानकोट्यो बकोटस्य यान्ति जन्तुजिघांसया ॥८९।। आत्मानुपदिकं लोकं कुर्यान्मूोऽपि कश्चन । आत्मानमनु लोहानि भ्रमयेद् भ्रमकोपलः ॥१०॥ मूर्खस्य मुखमीक्षन्ते क्वापि कार्ये विचक्षणाः । विना निकषपाषाणं को वेत्ति स्वर्णवर्णिकाम् ॥११॥
Page #9
--------------------------------------------------------------------------
________________
जुलाई-२००७
धैर्यप्रौढिर्दृढस्याऽपि विपद्याऽऽशु विपद्यते । अय:पिण्डोऽपि चण्डाग्नौ निमग्नो द्रवति द्रुतम् ॥९२।। कृत्वा स्थूलस्तपस्तीर्थे कोधपङ्के निमज्जति । मङ्कत्वाऽम्भसि गजो गात्रमुद्धलयति धूलिभिः ॥९३॥ विभवे विभवभ्रंशे सैव मुद्रा महात्मनाम् । अब्धौ सुरात्तसारेऽपि न मर्यादाविपर्यय: ॥९४।। यः प्रमाणीकृतः सद्भिस्तस्याऽन्यत् किं विचार्यते । अतुलेन तुलामेति काञ्चनेन सहोपलः ॥९५।। तत्तल्लीलायितै लैः शोभते श्रीमतां गृहम् । क्रीडादुर्ललितै ति कलभैर्वन्ध्यकाननम् ॥९६।। मानमर्हति मत्तोऽपि येनाऽऽयत्ता विभूतयः । इभं भोजयते भूपश्चाटुकारपरः स्वयम् ॥९७।। समुन्नतैः सह स्पर्धा स्वाङ्गभङ्गाय केवलम् । घनायौंऽसूयतो पश्य हरेर्यत् पर्यवस्यति ॥९८|| बलवानवंजानाति दुर्विनीतं पृथग्जनम् । भषन्तं भषणं पश्य' करी कि कलहायते ? ||९९॥ दृष्यते येन सर्वोऽपि कश्चित्तेनैव भूष्यते । मदो निन्दास्पदं लोके हस्तिनस्तु विभूषणम् ॥१००।। प्रख्यातवंशो यन्नाम्ना पुमान् सैषः क्वचिद् यतः । द्रुमेष्वेकैव सा जम्बूर्जम्बूद्वीपो यदाख्यया ॥१०१|| किमौन्नत्यं किमौज्ज्वल्यं कुर्यान्निर्धनता यदि । हित्वा हिमाद्रिं हेमाद्रिमाद्रियन्ते दिवौकसः ।।१०२|| केचिद् भवन्त्यपकृत्येऽपि मित्राणां सहकारिणः । सहायः किं न दाहाय दहनस्य समीरणः ॥१०॥ दत्ते धूर्तः सतृष्णा[ना]मनर्थेष्वर्थविभ्रमम् । मरौ ग्रीष्मः कुरङ्गाणां पुष्णाति मृगतृष्णिकाम् ||१०४।। कस्यचिन्मृत्युसमये नितरां स्युर्महोदयाः । विध्यास्यतः प्रदीपस्य पश्य वृदधिमती शिखाम् ॥१०५।।
Page #10
--------------------------------------------------------------------------
________________
३०
अनुसन्धान-४०
उपकारोऽपि निर्नाम नाश्यते कृतनाशिभिः ।। पयोदानां पयोवृष्टेब्रूहि किं कुरुते मरुः ॥१०६।। सुखाय मञ्जुलच्छायः प्रभुः प्रागेव किं धनैः । वटो हन्ति श्रमं सद्यः पान्थानां पथि किं फलैः ॥१०७।। क्षुद्राणामद्भुता लक्ष्मीर्मृत्योर्लक्ष्मेति निश्चयः । पिपीलिकानामुत्थानं पक्षयोः क्षयहेतवे ॥१०८।। तृणाय मन्यते लोकैश्चिरादल्पफलः प्रभुः । फलन् वर्षशतात् तालस्तृणराजस्तदुच्यते ॥१०९।। तन्मिथ्या यन्मिथो वैरमेकद्रव्याभिलाषिण:(णाम्) । रसना दशनैः सार्धं सदा संयुज्य कल्पते ॥११०॥ जनस्य यावती सम्पद् विपत्तिरपि तावती । दृष्टान्तः स्पष्ट एवात्र रजनीजीवितेश्वरः ॥११॥ स्वस्थास्तेजस्विनः प्रायस्तिरस्कारेऽपि दुःसहा:(हे) । रविपादाहतो हन्त ज्वलति ज्वलनोपलः ॥११२।। दोषवान् स्तूयते यस्तु दानशक्तिर्गरीयसी । गजानां गण्यते केन तादृग् जिह्वाविपर्ययः ॥११३|| शुद्धानामुदये शुद्धा वर्धन्ते जातु नेतरे । शुचौ दिनानि चीयन्ते क्षीयन्ते क्षणदाः पुनः ॥११४।। हेयोपादेयवैदुष्यं विमलस्यैव दृश्यते । हंसादन्यत्र नो दृष्टं क्षीर-नीरविवेचनम् ॥११५|| शक्त्या युक्त्या च संरोढुं शक्या नाऽऽकस्मिकी विपत् । कुतोऽप्यागत्य वात्याभिर्दीपो विध्यायते क्षणात् ॥११६।। भद्रमाशास्महे तस्मै य: स्यान्मौनी गुणाधिकः । कः किल स्तौति काकोलं वाचालं सति कोकिले ॥११७|| त्वमात्मानुप्रविष्टेभ्यः सद्यो दद्यात् समुन्नतिम् । दुनोत्यस्मान् लघून् कुर्वन् दर्पणोयर्पितात्मनः ||११८|| किमप्यसाध्यं महतां सिद्धिमेति लघीयसः । प्रदीपो हेमगेहान्तः ध्वान्तं हन्ति न भानुमान् ॥११९।।
Page #11
--------------------------------------------------------------------------
________________
जुलाई-२००७
विस्तीर्णैर्णनाभस्य सर्वदिग्व्यापिभिर्गुणैः । अन्तं जन्तुगणो नीतः कियत् क्षुद्रस्य सुन्दरम् ॥१२०॥ भोग्यान् विशिष्यते वस्तु यत् पात्रे न्यस्तमात्मना । पयः पीयूषमब्देषु वारिधेविषमात्मनि ।।१२१!!
टिप्पण विवेकपादप अने विवेककलिकानी खण्डित बे ताडपत्रीय प्रतो (ले.सं. १२८०) पाटण हेमचन्द्राचार्य ज्ञानभण्डारमा छे. - ही. र. कापडिया - जैन संस्कृत साहित्यनो इतिहास खंड-१, संपा. आचार्यश्री मुनिचन्द्रसूरिजी, पृ. १५५. 'आ काकुत्स्थकेलि, बृहट्टिप्पणिका (पुरातत्त्व पुस्तक २जु पृ. १, ४) मुजब १५०० श्लोक प्रमाण नाटक छे. जेनो ले.सं. १२८० छे. शक्य छे के 'विवेकपादप'नी अने काकुत्स्थकेलिनी लेखन संवत् १२८० ज छे.. तो का.
के. प्रस्तुत पा. हे. भण्डारनी प्रतनो कोईक अंश होय ? ३. प्रस्तुत सूक्तमालामां १२मुं अने १६, पद्य न-विपुला मां तथा ३६मुं अने
१०१ मुं पद्य म-विपुलामां निबद्ध छे. ४. नरेन्द्रप्रभसूरिजीनां गुरु नरचन्द्रसूरिकृत 'अनर्घराधवटिप्पण' (ला.द. भे.स. ५२४)नां
मंगलपद्य साथे प्रस्तुत सूक्तमालानुं मंगलपद्य सरखावो. गुरुनी असर देखाशे, परब्रह्ममयं ज्योति प्रणिधाय.... अने प्रस्तुत सू.मा.नुं मंगलपद्य प्रणिपत्य परं ज्योति.....
नारोहयेद् धुता. ६. छेदकारक: A 7. विधौ वै० A 8. किकेलि, अहीं ओ नोंधळू योग्य लागे छे के हैमीय - देशीशब्दसंग्रहनी गाथा
१८६मां 'कंकेल्लि' शब्द छे. . ९. विसा(शा)रद: AJ
१०. मिरोदये । ११. ननु जायेत दु:सहः ।
१२. उपाजीर्यत तत् कैश्चिद् । १३. माम्लस्य ।
१४. कुसुमोदयः । १५. बप्पीहः पातुमीहते ।
१६. क्रमालक्ष्मी० । १७. लुम्पति ।
१८, कापोत; ।
Page #12
--------------------------------------------------------------------------
________________
अनुसन्धान-४०
१९. फलिष्यताऽनेन ।
२०, सन्तापनोपैति । २१. फलोदये ।
२२. न भवेत् परभाग्याय । २३. परोल१० ।
२४, सवोऽन्यदा । २५. प्रभु- AI
२६. ०राम्लस्य A । २७. निबन्धनात् ।
२८. नेनत्ववस्यति । २९. व्यवसायं प्रयासाय ।
३०. ध्रुवमस्था० । ३१. शेषापुष्पं ।
३२. जात्यातिभास्वरे । ३३. हृदयङ्गमसङ्गमाः इत्यप्यन्वयः स्यात् गम-सङ्गमा इति ज्ञानसंयोगा इत्यर्थः ।
(सम्पादक: 1) ३४. ०मालिह्य दो० । ३५. ... लोके, अम्भोधि केन गम्यते A । ३६. स्यादप्यलौकिक: A I
३७. हारसृजः (हारः स्त्रजः) । ३८. ०पक्रम० A।
३९. काञ्चना० । ४०. भजन्ते के० ।
४१. परालक्षे० । ४२. घनीयन्ति AI
४३. किमु । ४४.. ०ऽपि निःमणः ।
४५. ध्यानं कार्ये बको० A ४६. भ्रामयेद् ।
४७. स्नात्वा । । ४८. ०कारपुरःसरम् ।
४९. एकं मायासुतं पश्य । ५०. बलवान्नव० ।
५१. भषणं वीक्ष्य । ५२. न कल० ।
५३. हस्तिनः सुबिभू० । ५४. पश्य इत्यनेन सह वृद्धिमती शिखा इति पदं प्रथमान्तं सुष्ठ भासते । सम्पादकः ।
-x
C/o. २०३/B. एकता एवन्यु
बेरेज रोड, वासणा,
अमदावाद-७
Page #13
--------------------------------------------------------------------------
________________
जुलाई-२००७
वाचकोत्तंस-श्रीज्ञानप्रमोदगणि-सन्दृब्ध आदिनाथ-पार्श्वनाथ-स्तोत्र
म० विनयसागर खरतरगच्छ की १० शाखाएँ और ४ उपशाखाएँ हैं । दूसरी उपशाखा श्री सागरचन्द्रसूरि उपशाखा कहलाती है । सागरचन्द्रसूरि का समय १५वीं शती है । जैसलमेर नरेश राजा लक्ष्मणदेव इनके बड़े प्रशंसक और भक्त थे । जिनभद्रसूरि को आचार्य बनाकर पट्टधर घोषित करने वाले भी यही थे । इन्हीं सागरचन्द्रसूरि की परम्परा में वाचक रनधीर के शिष्य वाचक ज्ञानप्रमोदगणि हुए हैं। खरतरगच्छ का बृहद् इतिहास पृष्ठ ३३७ के अनुसार इनकी परम्परा इस प्रकार है :
श्री सागरचन्द्रसूरि
उ. रत्नकीर्ति
धर्मरत्नसूरि वा. पुण्यसमुद्र वा. दयाधर्म
समयभक्त
पुण्यनन्दि
वा. शिवधर्म
वा. हर्षहंस
वा. रत्नधीर
वा. ज्ञानप्रमोद
क्षमाप्रमोद .
विद्याकलश उ. विशालकीर्ति वा. गुणनन्दन
'धीर' दीक्षानन्दी को देखते हुए वा० रनधीर की दीक्षा श्रीजिनमाणिक्यसूरिजी के कर कमलों से संवत् १६१२ के पूर्व ही हुई थी । ज्ञानप्रमोद की
Page #14
--------------------------------------------------------------------------
________________
३४
अनुसन्धान- ४०
दीक्षा कब हुई निश्चित रूप से नहीं कहा जा सकता, किन्तु युगप्रधान जिनचन्द्रसूरि स्थापित ४४ नन्दियों में १८वाँ नम्बर 'प्रमोद' नन्दी का है । रत्ननिधानोपाध्याय का १६२८ के पत्र में उल्लेख है, और उनकी नन्दी संख्या १२ है । अत: १६३५ के आस-पास ज्ञानप्रमोद की दीक्षा होनी चाहिए, और सम्भवतः इनको वाचक पद जिनसिंहसूरि ने प्रदान किया हो ।
I
वाचक ज्ञानप्रमोद की मुख्य कृति वाग्भटालङ्कार टीका है । इसकी रचना संवत् १६८१ में हुई । वाग्भटालङ्कार की प्राप्त टीकाओं में यह सब से बड़ी टीका है । टीकाकार ने इस टीका में अपने प्रगाढ़ पाण्डित्य का दिग्दर्शन करवाया है । लगभग ५ दशक पूर्व पुरातत्त्वाचार्य मुनिश्री जिनविजयजीने मुझे दो ग्रन्थों का सम्पादन कार्य दिया था १. वाग्भटालङ्कार ज्ञानप्रमोदीय टीका और २ लघु पंच काव्य शान्तिसूरिकृत टीकासहित । मैंने अनेक प्रतियों के पाठान्तर इत्यादि से संवलित कर दोनों प्रेसकॉपियाँ मुनिजी को सौंप दी थी... सम्भवतः यह ज्ञानप्रमोदीय टीका लालभाई दलपतभाई भारतीय संस्कृत विद्या मन्दिर, अहमदाबाद से प्रकाशित हो चुकी है ।
प्रस्तुत दोनों स्तोत्रों की किस प्रति के आधार से मैंने प्रतिलिपि की थी, मुझे ध्यान नहीं है । यह निश्चित है कि वह प्रति १८वीं सदी की अवश्य थी ।
१. प्रथम आदिनाथ स्तोत्र १४ पद्यों में है । १ - १३ पद्य वसन्ततिलका और १४वाँ पद्य स्रग्धरा छन्द में है । १४वें पद्य में कोट्टदुर्गालङ्कार का उल्लेख किया है, किन्तु यह कोट्टदुर्ग कौनसा है शोध्य है । यदि नगरकोट (हिमाचल प्रदेश) की कल्पना की जाए तो सम्भव प्रतीत नहीं होती । कोट्ट शब्द से जोधपुर प्रदेशस्थ होना चाहिए ।
२. दूसरा स्तोत्र रतलाम मण्डन पार्श्वनाथ स्तोत्र है । इस रतलाम को रत्नपुरी, रत्नावली आदि नामों से भी जाना जाता है । यह मध्यप्रदेश में है I इस स्तोत्र में ८ पद्य वसन्ततिलका छन्द के हैं और अन्तिम ९वाँ पद्य इन्द्रवज्रोपजाति का है ।
इन दोनों स्तोत्रों की भाषा और शैली देखते हुए ऐसा प्रतीत होता है कि कवि अधिकारी विद्वान् था |
Page #15
--------------------------------------------------------------------------
________________
जुलाई - २००७
३५
वाचक ज्ञानप्रमोद के शिष्य विशालकीर्ति व्याकरण के प्रौढ़ विद्वान्
थे । इनका विरुद सरस्वती था और ईडर की राज्य सभा में इन्होंने जय प्राप्त की थी। इनकी प्रक्रिया कौमुदी टीका और सारस्वत व्याकरण टीका प्राप्त हैं ।
कोट्टदुर्गमण्डन आदिनाथ स्तोत्रम्
विश्वप्रभुं प्रणतनाकिकिरीटरत्नघृष्टांहिपीठमसुमत्सु कृपाप्रयत्नम् । चेतस्समीहितसुरद्रुमतार्घ्यसेवं,
भक्त्या स्तवीमि सुतरां जिनमादिदेवम् ॥ १॥
श्रीनाभिभूपकुलपुष्करपद्मिनीपं, लोकत्रयीसकलभावविभासदीपम् । तत्त्वाप्तये भजत भव्यजना: ! कृतार्थं, प्रोद्यच्छरच्छशिमुखं च युगादिनाथम् ||२||
प्रह्लङ्गिसङ्गकरुणोपकृतौ गरिष्ठः, प्रोद्दामकामकरितुङ्गमृगारिरिष्टः ।
सत्कोमलक्रमणसंवृतवामपद्यः,
पायात् स वः प्रथमतीर्थकरोऽर्थसद्मः ||३||
स्फूर्जद्धरिप्रभृतिदेवविलक्षणोरुनानाचरित्रसुचमत्कृतविष्टपोरुम् । भक्ताङ्गिनिर्मितमनोज्ञकुनाभिजातः,
स श्रीप्रदोऽस्तु भविनां किल दत्तसातः ॥ ४ ॥
आनम्रदानवसुरेश्वरचञ्चरीक
श्रेण्या निषेवितमनारतमस्तपङ्क ! | पद्माश्रयं भविनृणां ननु मानसं ते पादाम्बुजं समभिनन्दतु पूतकान्ते ! ॥५॥
Page #16
--------------------------------------------------------------------------
________________
३६
अनुसन्धान-४०
त्रैलोक्यसंस्फुरितकेवलवासरेन्द्र, शत्रुञ्जयावनिधरेश्वरमाप्तभद्रम् । विस्मेरचम्पकमणीचकचन्दनायैर्धन्याः प्रभु समभिपूजयताऽऽहृद्यैः ||६|| पर्युल्लसद्गुणमणीरुचिराकराय, प्रोत्तुङ्गमोहगिरिभिद्भिदुरेश्वराय । क्रोधादिशत्रुगणनिर्जयसाधनाय, तुभ्यं नमो वृषभसत्तमलाञ्छनाय ||७|| विश्वातिशायिमहिमागरिमप्रतानं, चक्रेश्वरीसविधगोमुखसेव्यमानम् । भक्तिप्रकर्षपुलकाञ्चितकायदेशाः, श्रीमारुदेवमभिवन्दत भो नरेशाः ! ॥८॥ दुःखं विभो ! व्यपनयस्व विनम्रभूप ! नाभेस्तनूजरुचिनिर्जितजातरूप ! । पुण्याम्बुधे ! प्रणिपतज्जनमण्डलानां धर्मैकताननरमानसनिर्मलानाम् ।।९।।
नि:शेषसत्त्वकुमुदालिनिशाकराभम् । विष्वक्स्फुरत्सुरसरित्सलिलावदातकीर्ति नराः ! श्रयत तीर्थपति नितान्तम् ॥१०|| तत्कौशलोद्भव ! भवार्णवपोत ! नेतनित्यं क्षमाबहलधूर्वृषभामजेत । सम्यग्दृशां प्रजनयस्व परा_बुद्धि, नूनं जगत्रितयसेवित ! कर्मशुद्धिम् ॥११॥ वैविष्टपत्रयजनातिविनाशनाय, शश्वच्छुभव्रततिपङ्क्तिघनाघनाय ।
Page #17
--------------------------------------------------------------------------
________________
जुलाई-२००७
३७
व्याकोशपङ्कजदलोपमलोचनाय, त्वादीश ! ते जिन ! नमोऽस्तु सनातनाय ||२२|| निस्यन्दभन्दसुखकन्ददमाभिरामं, सत्यश्रियोऽधिप ! जिनाधिपते । प्रकामम् । वृन्दारकद्रुम मणी-वरधेनुकुम्भं, कामप्रदं पदयुगं तव नौम्यदम्भ ! ||१३|| इत्येवं कोट्टदुर्गे जिनगृहकमलाशेखर ! प्राक्प्रजेशः, नाथ ! स्तोत्रं पवित्रं तव सुखदमिदं भूरिभावैरधीश ! श्रीमच्छ्रीरत्नधीरस्य च परमगुरोः सप्रसत्तेजिनेन्द्रलक्ष्म्यै ज्ञानप्रमोदाभिधमुनिरचितं तद्विदां स्याद्वितन्द्रः ॥१४॥
इति श्री आदिनाथ स्तोत्रम्
पं. हीराणंदपठनार्थम् रतलाम-भूषण
पार्श्वनाथ-स्तोत्रम् आनन्दनम्रविबुधाधिपमौलिकोटीमाणिक्यकान्तिमहितांहिनखत्विषं वै । उद्यत्प्रतापमहिमेन्दिरया सनाथं, भक्त्या नमामि सततं, प्रभुपार्श्वनाथम् ॥१॥ श्रीअश्वसेननरराजकुलावतंसं, वामोरुकुक्षिसरसीवरराजहंसम् । विश्वत्रयीकलुषपावनतीर्थनाथं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ॥२॥ दुग्धार्णवेन्दुकिरणामलकीतिभासं, भव्याम्बुजावलिविबोधनचारुसूर्यम् । पद्मावतीधरणसेवितभिक्षुनाथं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ॥३॥
Page #18
--------------------------------------------------------------------------
________________ 38 अनुसन्धान-४० स्वोद्योतवीक्षणविनिर्जितचन्द्रपा, यस्याननं निरुपमं भविकस्य तोषम् / संवीक्ष्य नेत्रमपयाति भयप्रमाणं. भक्त्या नमामि सततं प्रभुपार्श्वनाथम् // 4 // पभेक्षणा घनपयोधरभारनम्राश्चैत्ये नरीनृतति यस्य पुरो ब्रुवाणाः / गीतस्तुति जिनपतेः कथिताऽऽर्यगाथं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् / / 5 / / श्रीस्तम्भनाधिपजिनं रतलामपावं, यं श्रीअवन्ति-मगसी-पुरतीर्थराजम् / नत्वा जिनं लभथ सौख्यमहो ! सुसार्थं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् / / 6 / / शकेश्वरादिरुचिरैर्जिननामधेयैः, पार्श्वप्रभुर्विजयते भुवि नीलवर्णः / सम्पूरयन् जनमनोऽभिमतं कृपार्थं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ||7|| योऽभ्यर्चितस्तु कुसुमैर्विधिना स्तुतो वा, पापं भिनत्ति भविनां यदि शं प्रदत्ते / कल्पद्रुमौघफलितश्च समीहितार्थं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् / / 8 / / इत्थं मुदा श्रीरतलामरत्न ! श्रीरत्नधीरस्य गुरोः प्रसादात् / ज्ञानप्रमोदेन जिनः स्तुतो वः, पायादपायात् स हि पार्श्वदेवः // 9 // इति श्री पार्श्वनाथस्य लघुस्तोत्रम् प्राकृत भारती अकादमी, १३-ए, मेन मालवीय नगर, जयपुर