Book Title: Stotrasamucchaya
Author(s): Chaturvijay
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 243
________________ २३१ कमलति कपिकच्छर्मालति व्यालपाली तुहिनति वनवह्निर्मापति ग्रीष्मकालः । शिशिरकरति सूरः क्षीरति क्षारनीरं विषममृतति मातस्त्वत्प्रभावेन पुंसाम् ॥ २ ॥ ज्वरभरपरितापोद्रिक्तपित्तातिवात क्षतधुततनुनिर्यद्बुद्दच्छिद्ररौद्राः। अपि घनरसपूतिक्लिन्नतिन्नास्थिमांसास्त्वदभिमुखमुपेता नैव सीदन्ति सन्तः ॥ ३॥ ततो योगी विषण्णः प्राह-एकवेलं भूमौ उपविशन्तु । प्रभुभिरुक्तं-तव यः कोऽप्यतिचण्डस्तं मुञ्च । ततस्तेन कदलीपत्रमानाय्य कटेर्नलिका कृष्टा । सर्पण सम्मुखमवलोकित पत्रं भस्मसाज्जातम् । एष साक्षात् कालः सिन्दूरिकनामा । गुरुभिरुक्तम्-मुश्च । तेन मुक्तः । एकस्वस्य वाहने जातः । वाहनसर्पो रेखां नोल्लवते । सिन्दूरिकेणोत्तीर्य जिह्वया रेखा भग्ना । अधस्तन उपरितनप्रेरणया आसनपादे चटितुं प्रवृत्तः । लोको हाहारवं कुरुते । प्रभवो ध्यानमालम्ब्य तस्थुः। इतश्चैकया शकुनिकया सर्पद्वयमुत्पाट्य क्वापि दूरतरं क्षिप्तम् । योगी दीनवदनो जातः । तस्य तदेव बलम् । तोडरमुत्तार्य गुरुचरणेषु प्रणामं कृतवान् प्रभो! मम स एव जीवितं तत् कथय वास्ते तत् सर्पद्वयम् ? प्रभवः प्राहुः-नर्मदाती. रेऽस्ति क्रीडत् । रात्रौ गुरूणां कुरुकुल्ला आगत्योवाच मामुपलक्षयथ? गुरुभिरुकंत्वं कुरुकुल्ला । साऽऽह-मया सर्पोऽपाकृतः । मास ४ सम्मुखवटाधिरूढया मया युष्माकं व्याख्यानं श्रुतम् । मया चिन्तितम्-अस्य करण्डिकाः सर्वा अपि रिक्तीकरिष्यामि । परं भवतु जनकौतुकम् । जनोपद्रवं द्रष्टुं न शक्नोमि । गुरुमिः स्तुतिरूपं काव्यमेकं जगदे । देव्योक्तम्-इदं भाण्डागारेऽस्तु । प्रातारे लिखितं काव्यत्रयं मम स्तुतिरूपं यः पठिष्यति तस्य सर्पोपद्रवो न भावी इति विज्ञप्य खस्थानं गता। एवं कान्हडो जितः । इति ॥ एतदेव वर्णनं पण्डितप्रवरश्रीमसोमधर्मगणिविरचितायामुपदेशसप्ततिकायाम् आरासणतीर्थवृत्तान्ते । आत्मानन्दसभामुद्रापितप्रतेः पत्र ३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320