________________
२३१
कमलति कपिकच्छर्मालति व्यालपाली
तुहिनति वनवह्निर्मापति ग्रीष्मकालः । शिशिरकरति सूरः क्षीरति क्षारनीरं
विषममृतति मातस्त्वत्प्रभावेन पुंसाम् ॥ २ ॥ ज्वरभरपरितापोद्रिक्तपित्तातिवात
क्षतधुततनुनिर्यद्बुद्दच्छिद्ररौद्राः। अपि घनरसपूतिक्लिन्नतिन्नास्थिमांसास्त्वदभिमुखमुपेता नैव सीदन्ति सन्तः ॥ ३॥
ततो योगी विषण्णः प्राह-एकवेलं भूमौ उपविशन्तु । प्रभुभिरुक्तं-तव यः कोऽप्यतिचण्डस्तं मुञ्च । ततस्तेन कदलीपत्रमानाय्य कटेर्नलिका कृष्टा । सर्पण सम्मुखमवलोकित पत्रं भस्मसाज्जातम् । एष साक्षात् कालः सिन्दूरिकनामा । गुरुभिरुक्तम्-मुश्च । तेन मुक्तः । एकस्वस्य वाहने जातः । वाहनसर्पो रेखां नोल्लवते । सिन्दूरिकेणोत्तीर्य जिह्वया रेखा भग्ना । अधस्तन उपरितनप्रेरणया आसनपादे चटितुं प्रवृत्तः । लोको हाहारवं कुरुते । प्रभवो ध्यानमालम्ब्य तस्थुः। इतश्चैकया शकुनिकया सर्पद्वयमुत्पाट्य क्वापि दूरतरं क्षिप्तम् । योगी दीनवदनो जातः । तस्य तदेव बलम् । तोडरमुत्तार्य गुरुचरणेषु प्रणामं कृतवान् प्रभो! मम स एव जीवितं तत् कथय वास्ते तत् सर्पद्वयम् ? प्रभवः प्राहुः-नर्मदाती. रेऽस्ति क्रीडत् । रात्रौ गुरूणां कुरुकुल्ला आगत्योवाच मामुपलक्षयथ? गुरुभिरुकंत्वं कुरुकुल्ला । साऽऽह-मया सर्पोऽपाकृतः । मास ४ सम्मुखवटाधिरूढया मया युष्माकं व्याख्यानं श्रुतम् । मया चिन्तितम्-अस्य करण्डिकाः सर्वा अपि रिक्तीकरिष्यामि । परं भवतु जनकौतुकम् । जनोपद्रवं द्रष्टुं न शक्नोमि । गुरुमिः स्तुतिरूपं काव्यमेकं जगदे । देव्योक्तम्-इदं भाण्डागारेऽस्तु । प्रातारे लिखितं काव्यत्रयं मम स्तुतिरूपं यः पठिष्यति तस्य सर्पोपद्रवो न भावी इति विज्ञप्य खस्थानं गता। एवं कान्हडो जितः । इति ॥ एतदेव वर्णनं पण्डितप्रवरश्रीमसोमधर्मगणिविरचितायामुपदेशसप्ततिकायाम् आरासणतीर्थवृत्तान्ते ।
आत्मानन्दसभामुद्रापितप्रतेः पत्र ३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org