SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २३० अभयद! भवदरजलधरपवन! सबलमदनवनदहनजलधर!। व्यपगतमद! शशधरवरवदन! जगदघहर! जय ततनयसमय!॥३॥ तरलकरणहयवरदमनकर! कनककजनवकगमन! वरवचः!। प्रथय परमपदमपदर धवलध्वज! घनघनवररव! जनशरण!॥४॥ परमपदरमण! कमनकजरद! शशधरकरहरनगधवलयशः!। परमतकजगज ! सकलजनमनःफलकरलसदमरनग! रचय शम् ५।। इत्येवं प्रथमस्वरेण सकलाभीष्टार्थकल्पद्रुमः :: सद्भक्त्या प्रथमो जिनः स्तुतिपथं नीतो युगादिप्रभुः। दोषान मेऽवगणय्य विश्वजनताबाता गुणस्थानकं दुर्भेद्यं प्रथमं भिनत्तु सपदि श्रेयःश्रियं यच्छतात् ॥ ६ ॥ इति प्रथमजिनस्तवनम् । अथ कुरुकुल्लादेवीस्तवनम् । प्रंणवहृदि यदीयं नाम मायासमिद्धं वहसि षडरलीनामातृकोपान्तरौद्रे!। भगवति कुरुकुल्ले! तं गलद्रोगराज निरुदयमपि भूता नैव लुम्पन्ति लूताः ॥ १॥ १ प्राचीनमुत्कलपत्रादेतत्स्तुतिसमुत्पत्तिकारणं त्वेवम् अन्यदा भृगुकच्छे श्रीदेवसूरिपार्श्वे कान्हडउ नाम योगी ८४ सर्पकरण्डिकाः समादाय शालायामागतः। मया सह वादं कुरुत । आसनं वा त्यज्यताम् । गुरुः-केन सह ?, स प्राह-मम सर्पाः सन्ति । प्रभुभिरासनोपविष्टैः सप्त रेखाः कृताः खटिकया । तेन सर्पो मुक्तः । एक एकां रेखां यावत् । एवं द्वितीयोऽपि द्वितीयां यावत् । बहवोऽपि मुक्ताः परे । षष्ठी रेखा केनापि नाकामिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy