Book Title: Stotrasamucchaya
Author(s): Chaturvijay
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 294
________________ २८३ मिश्रेषु मुख्यं भयजीवितेशं नेतः! शिवश्रीवरजीवितैशम् । नमे! स्मरेद् यो गुणवत्सदेशं मही महेत् तं गुणराजिवेशम् ॥४॥ इति मुदितमनस्को मूर्धगाचार्यनामा ऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ ५॥ ____ इति नमिजिनस्तवनम् । श्रीअरिष्टनेमिजिनस्तवनम् ॥ २२॥ पर्निराणां त्वयि पञ्चरोपचर्चापहे या स्वदृशं रुरोप। महीतले कोऽपि परास्तकोप ! गतौ न तस्यां पुरुषश्चकोप ॥ १॥ छलैकहग मन्मथकंशगोपपते ! जगद् गोनिकरैकगोप!। तिरस्कृतारितसर्वगोप! श्रीमन् भवानेव यदून जुगोप ॥२॥ सुरावलीसेव्य! दिताघरोप! धन्यं जिनं त्वां कृतपापलोप!। महेन्महान्तं दुरितं न कोपपत्तिस्थितिर्नेमिविभो ! लुलोप ॥ ३ ॥ रन्ता स एव प्रणयीह गोपपत्तिप्रियायां स्वमघं जुगोप । रागात् त्वया प्रैक्षि पुमानरोपसौभाग्यसौजन्यनिधानगोप! ॥४॥ इति मुदितमनस्को मूर्धगाचार्यनामा ऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः। कमलविजयसंख्यावद्विनेयाणुरेणी स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ ५ ॥ शति अरिष्टनेमिजिनस्तवनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320