Book Title: Stotrasamucchaya
Author(s): Chaturvijay
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 283
________________ २७१ मदैर्विमुक्तं जलवाहनादं तेजस्विनं मेघेसुतं रमादम् । हेमच्छविं क्लुप्तजगत्प्रसादं मनोजदर्पोद्दलनैकपादम् ॥ २ ॥ विमुच्य यो दत्तमहाविषादं मतं भजेत् तीर्थपतिं सुसादम् । लभेदसौ नष्टसमस्तखेदं यशो विधूतान्तरवैरिभेदम् ॥ ३ ॥ तिरस्कृतोन्मादमसार्दैकन्दं राजास्यमीडे सुकृतेष्वमन्दम् । जात्युल्लसद्दन्तमशेषभन्दं य आप्तवानादृतमुक्तिनन्दम् ॥ ४ ॥ इति मुदितमनस्को मूर्धगाचार्यनामा ऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः॥५॥ इति श्रीसुमतिजिनस्तवनम् । श्रीपद्मप्रभजिनस्तवनम् ॥ ६॥ नवीमि सत्स्वान्तसरोमरालं मोक्षप्रदं कोपरसादरालम् । यत्नेन लावण्यगुणाकरालं मिथ्यामतोत्तुङ्गतरावरालम् ॥ १ ॥ पुरोगमानन्दसुखेन्दिरालं रम्भाभरैतिमिमं धरालम् । दधौ सुखं वीक्ष्य गतस्मरालं रतिर्न भेनुं यमभूदरालम् ॥ २ ॥ सुरेश्वरन्यस्तसरोजमालं महेजिनं यः प्रणताङ्गिमालम् । तिरोधुस्तद्विपदोऽनुकालं सातं पुनः प्रादुरभूदकालम् ॥ ३ ॥ १ जलधरगम्भीरघोषम् । २ मेघभूपालपुत्रम् । ३ मदनमदभेदने एकपादं-शङ्करम् । ४ न सादो विषण्णता इति असाद आनन्द इत्यर्थस्तस्य कन्दम् । ५ राजा चन्द्रस्तस्य इव आस्यं मुखं यस्य स तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320