________________
२७१
मदैर्विमुक्तं जलवाहनादं तेजस्विनं मेघेसुतं रमादम् । हेमच्छविं क्लुप्तजगत्प्रसादं मनोजदर्पोद्दलनैकपादम् ॥ २ ॥ विमुच्य यो दत्तमहाविषादं मतं भजेत् तीर्थपतिं सुसादम् । लभेदसौ नष्टसमस्तखेदं यशो विधूतान्तरवैरिभेदम् ॥ ३ ॥ तिरस्कृतोन्मादमसार्दैकन्दं राजास्यमीडे सुकृतेष्वमन्दम् । जात्युल्लसद्दन्तमशेषभन्दं य आप्तवानादृतमुक्तिनन्दम् ॥ ४ ॥ इति मुदितमनस्को मूर्धगाचार्यनामा
ऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः॥५॥
इति श्रीसुमतिजिनस्तवनम् ।
श्रीपद्मप्रभजिनस्तवनम् ॥ ६॥
नवीमि सत्स्वान्तसरोमरालं मोक्षप्रदं कोपरसादरालम् । यत्नेन लावण्यगुणाकरालं मिथ्यामतोत्तुङ्गतरावरालम् ॥ १ ॥ पुरोगमानन्दसुखेन्दिरालं रम्भाभरैतिमिमं धरालम् । दधौ सुखं वीक्ष्य गतस्मरालं रतिर्न भेनुं यमभूदरालम् ॥ २ ॥ सुरेश्वरन्यस्तसरोजमालं महेजिनं यः प्रणताङ्गिमालम् । तिरोधुस्तद्विपदोऽनुकालं सातं पुनः प्रादुरभूदकालम् ॥ ३ ॥
१ जलधरगम्भीरघोषम् । २ मेघभूपालपुत्रम् । ३ मदनमदभेदने एकपादं-शङ्करम् । ४ न सादो विषण्णता इति असाद आनन्द इत्यर्थस्तस्य कन्दम् । ५ राजा चन्द्रस्तस्य इव आस्यं मुखं यस्य स तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org