________________
धुन्वन् भयं शर्मविधावबालं सूते स्म यत्स्वान्तमयैकजालम् । रसैनता देवमिमं शुभालं ये कायरुङ्नुन्ननवप्रवालम् ॥ ४ ॥
इति मुदितमनस्को मूर्धगाचार्यनामा. अक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ ५ ॥
इति श्रीपद्मप्रभजिनस्तवनम् ।
श्रीसुपार्श्वजिनस्तवनम् ॥७॥
सेतुं भवाब्धौ गुणरत्नधाम! वाचंयमाम्भोजसहस्रधाम! । मनस्यहं त्वां प्रवहामि वामहेलं सुपार्श्व! क्षितकोपकाम! ॥ १ ॥ लब्धोदयाङ्गीकृतमुक्तिपद्मक्ष्मीद्धक्षमापालनताङ्गिपद्म। साधुप्रभो! पाहि शमाभिराम! गर्वैककोकामृतधामधाम! ॥२॥ रतीशसारङ्गमृगेन्द्रभीमं गुर्वर्तिसंसारमखैकभीमम् । रुचिं दधानं वरभावमामभिषक् ! शुभं मां कुरु देव! नाम ॥३॥ क्षुद्रेतरस्वान्त! निरस्तभाम! कुन्दाभकीर्ते! भवभूतिराम । जयाय नो देव! विमुक्तराम! रङ्गद्गुणग्राम ! मनोज्ञयाम ! ॥ ४ ॥
इति मुदितमनस्को मूर्धगाचार्यनामा- . . ऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ - स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥५॥
इति श्रीसुपार्श्वजिनस्तवनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org