Book Title: Stotrasamucchaya
Author(s): Chaturvijay
Publisher: Pandurang Javji
View full book text
________________
२७६ मत्वं भवन्तं त्रिजगत्तमोहं हंसाभकीर्ते! गतमानमोहम् । स्तुवे स्मराम्भोरुहशुभ्रवाहं वेगेन चिद्धीधवधुर्यवाहम् ॥ ४ ।।
इति मुदितमनस्को मूर्धगाचार्यनामा
ऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ ५ ॥
इति वासुपूज्यजिनस्तवनम् ।
श्रीविमलजिनस्तवनम् ॥ १३ ॥
श्रीमल्लसज्ज्ञान कलाकुनामे देहि श्रियं देव! गभीरनामे । वक्राननिद्भुतकुरङ्गनाभे सुमत्पितः स्वीकृतधर्मनाभे ॥१॥ दद्याः सुखं मे विमलाप्तनाभे रम्यववंशद्युतिमत्सनाभे। गुप्तेन्द्रिये दुःखमहावनेभे रुषाऽन्तमाप्ते त्वयि नाथ ! लेभे ॥२॥ नाथाऽङ्गभातर्जितशातकुम्भे मदीयहृत् स्तात् त्वयि शातकुम्भे । मन्दोऽभवस्त्वं कृतभूरिदम्भे त्रस्तैणनेत्रानिकरे सरम्भे ॥३॥ राजेत जङ्घायुगनुन्नरम्भे जन्योस्त्वयि प्रेम शिवैकलम्भे । मीनध्वजाभे किमिताः सलाभे हेलाः श्रियां तत्र न मजुलाभे ॥४॥
इति मुदितमनस्को मूर्धगाचार्यनामा
अक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः। कमलविजयसंख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ ५ ॥ ___इति विमलजिनस्तवनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320