SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७६ मत्वं भवन्तं त्रिजगत्तमोहं हंसाभकीर्ते! गतमानमोहम् । स्तुवे स्मराम्भोरुहशुभ्रवाहं वेगेन चिद्धीधवधुर्यवाहम् ॥ ४ ।। इति मुदितमनस्को मूर्धगाचार्यनामा ऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ ५ ॥ इति वासुपूज्यजिनस्तवनम् । श्रीविमलजिनस्तवनम् ॥ १३ ॥ श्रीमल्लसज्ज्ञान कलाकुनामे देहि श्रियं देव! गभीरनामे । वक्राननिद्भुतकुरङ्गनाभे सुमत्पितः स्वीकृतधर्मनाभे ॥१॥ दद्याः सुखं मे विमलाप्तनाभे रम्यववंशद्युतिमत्सनाभे। गुप्तेन्द्रिये दुःखमहावनेभे रुषाऽन्तमाप्ते त्वयि नाथ ! लेभे ॥२॥ नाथाऽङ्गभातर्जितशातकुम्भे मदीयहृत् स्तात् त्वयि शातकुम्भे । मन्दोऽभवस्त्वं कृतभूरिदम्भे त्रस्तैणनेत्रानिकरे सरम्भे ॥३॥ राजेत जङ्घायुगनुन्नरम्भे जन्योस्त्वयि प्रेम शिवैकलम्भे । मीनध्वजाभे किमिताः सलाभे हेलाः श्रियां तत्र न मजुलाभे ॥४॥ इति मुदितमनस्को मूर्धगाचार्यनामा अक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः। कमलविजयसंख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ ५ ॥ ___इति विमलजिनस्तवनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy