Book Title: Stotrasamucchaya
Author(s): Chaturvijay
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 277
________________ द्वात्रिंशइलकमलबन्धबन्धुरं - श्रीमहावीरस्तवनम्। सन्नमत्रिदशवन्धपदं श्रीवर्धमानममलं विजितारम् । संस्तवीमि भवसागरपारं प्राप्तुमिच्छरुरुसद्गुणरत्नम् ॥ १ ॥ सद्भिरातमुरीकृतयत्नं त्वन्मते गततमस्युरुभासि । संशयावलिहरेऽद्य विलासि स्वान्तमस्तु मम संयमगेह ॥ २ ॥ सङ्गमुक्त! भवदावजदाहं त्वं पयोधररव! त्रिशलासू-। संभवं तमदिताङ्गिमनःसूदात्तधीरिममनोगजवारी ॥३॥ सन्ततं जिन ! भवानघहारी यैरसेव्यततरां गततन्द्रम् । सस्पृहं श्रयति तान्नसुरेन्द्रश्रीर्मनोहररसापि दुरापा ॥४॥ सङ्गतं गमशतैर्गुरुपापापोहकं जिन! नयद्रुमकन्दः । सम्मदाय नहि कस्य तवाऽदस्सद्वचोऽमिततमोभरदीपः॥५॥ सञ्चितं गुणगणैर्भवतापच्छेदि तेऽद्भुततमं पदपद्मम् । संसृजन्ति भविकाः श्रितप_स्वेऽमले हृदि दितारतिकामम्॥६॥ सङ्करेऽपि पतितास्तव नामध्यानमङ्गजजलातप! येऽधुः। संपदं त इह यान्ति सुसाधुश्रेणिसेवित ! तपस्ततितीव्र!॥७॥ सज्जनाम्बुजविबोधकृति ब्रनोपमो जनननीरधितोऽतः । संसदा दिविषदां नत! तातः पाहि मां शममयस्त्वमनीव!॥८॥ सम्यगूलभुवने मरुतोश्चत् पश्चमखररवैः सुसुरीकाः। संजगुर्गुरु यशस्तव राकाचन्द्रमण्डललसद्गुणचारो! ॥ ९॥ १ इतःप्रभृति सरसहृदयंगमाः प्रत्येकं श्लोकोद्धारपूर्वकाः कमलबन्धाद्याकृतयः सन्ति परमन्तरान्तरा तत्र तत्रायसाक्षरमुद्रणालयेऽयितुमशक्यत्वात् प्रन्थावसाने सपुटनिर्देशं ताः सम्यकया शिलामुद्रणेनोद्धरिष्यामः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320