________________
द्वात्रिंशइलकमलबन्धबन्धुरं - श्रीमहावीरस्तवनम्।
सन्नमत्रिदशवन्धपदं श्रीवर्धमानममलं विजितारम् । संस्तवीमि भवसागरपारं प्राप्तुमिच्छरुरुसद्गुणरत्नम् ॥ १ ॥ सद्भिरातमुरीकृतयत्नं त्वन्मते गततमस्युरुभासि । संशयावलिहरेऽद्य विलासि स्वान्तमस्तु मम संयमगेह ॥ २ ॥ सङ्गमुक्त! भवदावजदाहं त्वं पयोधररव! त्रिशलासू-। संभवं तमदिताङ्गिमनःसूदात्तधीरिममनोगजवारी ॥३॥ सन्ततं जिन ! भवानघहारी यैरसेव्यततरां गततन्द्रम् । सस्पृहं श्रयति तान्नसुरेन्द्रश्रीर्मनोहररसापि दुरापा ॥४॥ सङ्गतं गमशतैर्गुरुपापापोहकं जिन! नयद्रुमकन्दः । सम्मदाय नहि कस्य तवाऽदस्सद्वचोऽमिततमोभरदीपः॥५॥ सञ्चितं गुणगणैर्भवतापच्छेदि तेऽद्भुततमं पदपद्मम् । संसृजन्ति भविकाः श्रितप_स्वेऽमले हृदि दितारतिकामम्॥६॥ सङ्करेऽपि पतितास्तव नामध्यानमङ्गजजलातप! येऽधुः। संपदं त इह यान्ति सुसाधुश्रेणिसेवित ! तपस्ततितीव्र!॥७॥ सज्जनाम्बुजविबोधकृति ब्रनोपमो जनननीरधितोऽतः । संसदा दिविषदां नत! तातः पाहि मां शममयस्त्वमनीव!॥८॥ सम्यगूलभुवने मरुतोश्चत् पश्चमखररवैः सुसुरीकाः। संजगुर्गुरु यशस्तव राकाचन्द्रमण्डललसद्गुणचारो! ॥ ९॥ १ इतःप्रभृति सरसहृदयंगमाः प्रत्येकं श्लोकोद्धारपूर्वकाः कमलबन्धाद्याकृतयः सन्ति परमन्तरान्तरा तत्र तत्रायसाक्षरमुद्रणालयेऽयितुमशक्यत्वात् प्रन्थावसाने सपुटनिर्देशं ताः सम्यकया शिलामुद्रणेनोद्धरिष्यामः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org