________________
२६६
संपरायरिपुभिः सह मारो वर्धतेऽमद! दधन्मयि नोदम् । स त्वयाऽवगणितः किमकन्दxकाश्चनच्छविविभूषितकाय! १० संसृति भयकरीमपहाय स्फीतिनिर्मल! लभंस्तव बोधम् । शर्म नैर्वृतममन्दमबाधं यामि नायक! कदाहमकर्मा ॥ ११ ॥ सगरे श्रियममी अरिमर्माविच्छरोत्कररयेऽप्युपयेमुः । संस्मृतस्त्वमसि यैर्भवितामुहामकामिततरुः शुभ! शस्त !॥१२॥ सङ्गमामरकुदर्पदवास्तप्रावृडम्बुद ! दयापर! देव !। संप्रति स्फुरति ते महिमावच्छासनं भुवि विभो! सविवेकम्१३ सत्पथप्रथनसार्थपति कस्त्वां जिनेश! न नमत्यपकाम! । सत्कलाकुवलयामृतधामन्नद्भुता विधिधियं दमशाल! ॥ १४ ॥ सर्वथा भयकरः कलिकालस्तावदङ्गिनि निबद्धविटम्बः। संश्रितो तव पदौ नहि यावद् वासवायुधधरौ रिपुयोध!॥१५॥ सर्वदापि भगवन्नघबन्धं प्रार्थयाम्यसमनो बहिरङ्गम् । सन्निधौ निजपदोरितरागं मां विधेहि शशभृद्वदनश्री ! ॥१६॥
श्रीरत्नसिंहसूरीन्द्रपादपद्ममधुव्रतः। - चकारोदयधर्माऽमुं स्तवं कमलबन्धगम् ॥ १७ ॥
परिधिश्लोकः-- श्रीसिद्धार्थनरेशनन्दन! जिन ! श्रीवीर! नीरुक्तनो ! ___ स्तुत्वा त्वां नयनाग्नि(३२)सम्मितदलाम्भोजन्मबन्धस्तवात् । नेहे चक्रिपदं न वासवपदं नाऽस्तापदं संपदं किन्तु त्वत्पदपङ्कयोनियमले भृङ्गायतां मे मनः ॥ १८ ॥ इति श्रीमहावीरस्तवनं द्वात्रिंशत्पत्रबन्धकमलगं परिधिगतगुरुनामकवि____ नामकाम्यनामगर्भम् उपाध्यायश्रीउदयधर्मकृतं मन्त्रिकूपालि
खितम् उदयसोममुनिपठनार्थमलेखि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org