SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २६४ इत्थं क्रुद्ध्यन्नमिचिनमिवागू लज्जया नागभर्तुः किञ्चिन्मौनस्मितसवलितं वीक्षितं पातु युष्मान् ॥ ६ ॥ भङ्कं पश्चाऽऽशु पञ्चाशुगसुभटशरान् पञ्चमुख्यव्रतश्रीक्रीडासौख्यान्यवाप्तुं सममिव समितीः पश्च संसेवितुं वा । आसीद् यः पञ्चमूर्तिर्नमिविनमिधृतोर्ध्वासिधाराचतुष्कक्रोडान्सः कान्तकायः स हरतु दुरितान्यादितीर्थङ्करो वः ॥७॥ यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः सोऽयं वो विदधातु वाञ्छितफलं श्रीनाभिसूनुर्जिनः ॥ ८ ॥ दद्यान्मुदं सर्वसमानबुद्धिर्जगद्गुरुर्नाभिनरेन्द्रसूनुः । उपार्जितं ज्ञानमहानिधानं दत्तं कुटुम्बाय विभज्य येन ॥ ९ ॥ धन्या त्वं मरुदेवि ! तीर्थहृदयं यस्याः सुतस्त्वीदृशो निन्द्याः स्मः सुरनायिका अपि वयं यासामपत्यं नहि । एनं देहि यथाऽमृतैर्निजवपुः संश्लिष्य सिनाम इ त्यात्तः स्मेरमुखः सुरीभिरभितः श्री आदिनाथः श्रिये ॥ १० ॥ नव्योद्वाहविधौ वधूद्वययुतं पुत्रं सवित्री रति प्रीत्यासन्नमिव स्मरं किल ददौ यं विज्यसत्याशिषम् । कल्पद्रुः किल जङ्गमः किमधुना पत्रद्वयेनोगत स्तत् त्वं स्याः शतशाख इत्यनुदिनं स श्रेयसे नाभिभूः ॥ ११ ॥ इति श्रीयुगादिजिन स्तवनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy