Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 4
________________ ShriMahanuarJain.ArachanaKendra hchyan lagun Gym उपोद्घातः RECESSA प्रश्नशतक. पदे योजितानि, तानि च पदानि शृङ्खलाकमलादिचित्रालङ्कारचित्रितचित्रकाव्यरूपाणि सन्ति । तानि तानि च सर्वाणि चित्राणि ग्रन्थादौ दृष्टि- पथमायास्यन्ति । निभालनीयं निष्णातानां नितरामत्र प्रान्ते श्रीमद्भिरेव ख्यापितं श्रीमदभयदेवगुरोविद्यार्थित्वमात्रं शिष्यत्वं तु श्रीजिनेश्वराणामिति । ॥१॥ Pएवमागमिकगच्छीयश्रीजयतिलकसूरिविनिर्मितः खोपज्ञटीकासंबलितः चतुर्हारावलीचित्रस्तवः द्वितीयतया स्थापितोऽस्ति, यस्मिन् अतीतानाग तवर्तमानविहरमाणशाश्वतजिनानां चतस्रश्चतुर्विंशतिका विद्यन्ते, प्रत्येकं श्लोके च द्वयोयोस्तीर्थकृतोरतिभक्तिभरेण चमत्कारकारिणी स्तुतिदरकारि, पादचतुष्टयायन्ताक्षरग्रहणेन पुनः स्तूयमानयोराद्यन्तयोः प्रभवोर्नाम्नी अपि अभिव्यज्यते । तथा पूर्वसूरिविरचिता प्रश्नावलिः खोपः ज्ञावचूरिशालिनी तृतीयतया पनिवेशिता, मौलिकं वस्तु नाममात्रादेव स्पष्टं उत्तराणि पुनस्सविशेषतया द्वादशाक्षर्यामेव गुम्फितानि, तदर्थः । पुनः क्लिष्टतया खयमेव स्फारितोऽस्ति । तथा आदिपदव्यपदेश्यं गयरायंस्तोत्रं सावचूरिक चतुर्थतया न्यधाथि, तच्च संस्कृतव्याख्याभागि प्राकृतमयं यमकपदसंनिवेशितं बहु रमणीयमस्ति । तथा पूर्णिमागच्छीयश्रीभावप्रभकृतटीकाकलितं श्रीपार्श्वचन्द्रग्रथितं महावीरस्तोत्रं पञ्चमतया खिरीकृतं वरीवर्ति, तत्पुनः सारस्वतसंज्ञाधिकारसूत्रसंकलितपदमयं समस्ति । तथागयकलहादिपदतया गयकलहनामकं महावीर| स्तोत्रं प्राकृतमयं संस्कृतावचूरिशालितं षष्ठतया, सटीकं पुनः नेमिजिनस्तोत्रं नमरूपनिजद्वयक्षरमात्रखचितं सप्तमतया, टीकासंटकितं पार्श्वजिनसमस्यामयं स्तोत्रं पुनरष्टमतया, टीकासंयुक्तं एकाक्षरविचित्रकाव्यं यदीयस्य एकैकस्य काव्यस्य अरनाथब्रह्मविष्णुमहेश्वरपराः चत्वारोऽर्थाः समुल्लसन्ति तत् नवमतया, टीकासहिता द्विखरत्रिव्यञ्जनाश्रिता श्रीमद्भगवत्स्तुतिरूपा षट्-श्लोकी पुनर्दशमतया, यमकालङ्कारमयी तीर्थकरस्तुतिभूता सटीका चतुःश्लोकी पुनरेकादशतया च संकलितास्सन्ति । तथा श्रीमच्चारित्रोदयवाचनाऽऽचार्यविनेयश्रीसूरचन्द्रउपनिबद्धः | सटीकः श्रीवर्द्धमानजिनस्तवः श्रीफलवद्धिपार्श्वनाथजिनस्तवश्च द्वादशत्रयोदशतया विनिहितोऽस्ति । तथा श्रीपार्श्वजिनस्तवत्रयी टीका C RECAREE For Private And Personal use only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 206