Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 625
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठप्रतिष्ठादितत्त्वम्। शिलति उदूखलोपलक्षणं तण्डलार्थत्वात्। कास्यम् अग्निप्रणयनार्थम् । तथाच गृह्यासंग्रहः। 'शमं पावन्तु कांस्यं स्यात्तेनाग्नि प्रणयेद बुधः। तस्याभावे शरावेण नवेनाभिमुखञ्च तम्। सर्वतः पाणिपादान्तः सर्वतोऽक्षि शिरोमुखः । विश्वरूपो महामग्निः प्रणीतः सर्वकर्मसु'। एवञ्चाग्निप्रणयनानन्तरं सर्वत इत्यस्य पाठो युज्यते। प्रणीत इति मन्त्र लिङ्गात् अन्यथा स्थापनानन्तरमेतहिधानं व्यर्थं स्यात् । गुणविष्णुनापि अतिरित्युक्त्वा सर्वतः पाणिपादान्त इति लिखितम्। अत्र च पाकाङ्गयजत्वात् साहसनामानमग्निमाह एह्यासंग्रहः । 'प्रायश्चित्ते विधुश्चैव याकयज्ञे तु साहसः । पूर्णाहुत्यां मृड़ो नाम शान्तिके वरदस्तथा। प्राय चैव होतव्यं यो यत्र विहितोऽनलः'। प्रायश्चित्ते वैगुण्य. समाधानार्थं प्रायश्चित्तात्मकमहाव्याहृतिहोमादौ। तथाच छन्दोगपरिशिष्टम्। 'यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत्। चतस्रस्तत्र विज्ञेया स्त्रीपाणिग्रहणे तथा। अपि वा ज्ञातमित्येषा प्राजापत्यापि वा हुतिः। होतव्या विवि. कल्पोऽयं प्रायश्चित्तविधिः स्मृतः'। अत्र त्रिविकल्प इत्यभि. धानात्। सामगानां भवदेवभट्टोक्तशाट्यायनहोमोऽपि निष्प्र. माणकः। भट्टनारायणचरणा अप्य वम् । अत्र 'प्रत्येक नियत कालमात्मनो व्रतमादिशेत्। प्रायश्चित्तमुपासौनो वाम्यतस्त्रिसवनं स्पृशेत्' । इति शङ्खलिखितवचने प्रत्येक नियत कालमिति। तत्तद् व्रतकालसंख्यामात्मनो व्रतम् आत्मसम्बन्धित्वेन आत्म कर्तत्वेनेति यावत्। तेनामुकपापक्षयकामोऽमुकव्रतमहं करिष्ये इति चादिशेत् उल्लेख कुर्यादित्यनेन प्रायश्चित्तव्रते सङ्कल्पविधानात्। प्रायश्चित्तहोमेऽपि तथा अतएव भवदेवभट्टेनापि लिखितम्। तेन For Private and Personal Use Only

Loading...

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694